२८६ [ व्यवहाराध्याय भिगच्छति तदा गोमिथुनं शुल्कं तत्पित्रे दद्यात् यदिच्छति । पितरि तु शुल्क मनिच्छति दण्डरूपेण तदेव राज्ञे दद्यात् । सवर्णामकामां तु गच्छतो वध एव । यथाह मनुः (८॥३६६)-‘शुल्कं दद्यात्सेवमानः समामिच्छेत्पिता यदि' । (८॥३६४ )-‘योऽकामां दूषयेत्कन्यां स सद्यो वधमर्हति । सकाम न वध प्रामुयान्नरः ॥ ’ इति ॥ २८८ ॥ शतं स्त्रीदूषणे दद्याद्वे तु मिथ्याभिशंसने । पशून्गच्छन्शतं दाप्यो हीनां स्त्रीं गां च मध्यमम् ॥२८९॥ किंच । स्रीशब्देनात्र प्रकृतत्वात्कन्याऽवमृश्यते । तस्या यदि कश्चिद्विद्यमाना नेवापस्मारराजयक्ष्मादिदीर्घकुत्सितरोगसंस्पृष्टमैथुनत्वादिदोषान्प्रकाश्येयमकन्येति दूषयत्यसौ शतं दाप्यः । मिथ्याऽभिशंसने तु पुनरविद्यमानदोषाविष्कारेण दूषणे द्वे शते दापनीयः । गोव्यतिरिक्तपशुगमने तु शतं दाप्य । यः पुनहींनां ख्रियमन्त्यावसायिनीमविशेषात्सकामामकामां वा गां चाभिगच्छत्यसैौ मध्यम साहसं दण्डनीयः ॥ २८९ ॥ साधारणस्रीगमने दण्डमाह अवरुद्धासु दासीषु भुजिष्यासु तथैव च । गम्याखपि पुमान्दाप्यः पञ्चाशत्पणिकं दमम् ।। २९० ॥ गच्छन्नित्यनुवर्तते । उक्तलक्षणा वर्णस्त्रियो दास्यस्ता एव स्वामिना शुश्रूषा हानेिव्युदासार्थ गृह एव स्थातव्यमित्येव्वं पुरुषान्तरोपभोगतो निरुद्धा अव रुद्धाः । पुरुषनियतपरिग्रहा भुजिष्याः । यदा दास्योऽवरुद्धा भुजिष्या वा भवे युस्तदा तासु तथा । चशब्दाद्वेश्यास्वरिणीनामपि साधारणस्रीणां भुजिष्याणां च ग्रहणम् । तासु च सर्वपुरुषसाधारणतया गम्यास्वपि गच्छन् पञ्चाशत्पणान्दण्ड नीयः । परपरिगृहीतत्वेन तासां परदारतुल्यत्वात् । एतच्च स्पष्टमुक्तं नारदेन ‘खैरिण्यब्राह्मणी वेश्या दासी निष्कासनी च या । -गम्याः स्युरानुलोम्येन खियो न प्रतिलोमतः ॥ आस्वेव तु भुजिष्यासु दोषः स्यात्परदारवत् । गम्या स्वपि हि नोपेयोद्यत्ताः परपरिग्रहा ॥’ इत ॥ निष्कासिनी स्वाम्यनवरुद्ध दासी । ननु च स्वैरिण्यादीनां साधारणतया गम्यत्वाभिधानमुक्तम् । नहि जातितः शास्रतो वा काश्चन लोके साधारणाः स्त्रिय उपलभ्यन्ते । तथाहि । खैरिण्यो दास्यश्च तावद्वर्णस्त्रिय एव ।–‘स्वैरिणी या पतिं हित्वा सवर्ण कामत श्रयेत् । वर्णानामानुलोम्येन दास्यं न प्रतिलोमतः ।।' इति मनुस्मरणात् । नच वर्णस्त्रीणां पत्यौ जीवति मृते वा पुरुषान्तरोपभोगो घटते । (मनुः ५॥ १५४-१५७)-‘दुःशीलः कामवृत्तो वा गुणैर्वा प्ररिवर्जितः । परिचार्यः स्त्रिया साध्व्या सततं देववत्पतिः ॥ कामं तु क्षपयेद्देहं पुष्पमूलफलैः शुभैः । नतु नामापि गृह्णीयात्पत्यौ प्रेते परस्य तु ॥' इति निषेधस्मरणात् ॥ नापि कन्याव १ मिथ्याभिशंसिते घ. २ सपरिग्रहाः घ. यतस्ताः
पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३१४
दिखावट