पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३८ याज्ञवल्क्यस्मृतिः। [व्यवहाराध्यायः परसस्यविनाशकारिणी महिषी अष्टौ माषान्दण्डनीया । गौस्तदर्ध चतुरो महिष्यादीनां धनसंबन्धभा माषान् । अजा मेषाश्च माषद्वयं दण्डनीया । वात्तत्स्वामी पुरुषो लक्ष्यते । माषश्चात्र तात्रिकपणस्य विंशतितमो भागः । ‘माषेो विंशतिमो भागः पणस्य परिकीर्तितः' इति नारदस्मरणात् । एतच्चा ज्ञानविषयम् । ज्ञानपूर्वे तु ‘पणस्य पादौ द्वौ गां तु द्विगुणं महिषीं तथा । तथाऽजाविकवत्सानां पादो दण्डः प्रकीर्तितः ।।' इति स्मृत्यन्तरोत्तं द्रष्टव्यम् । यत्पुनर्नारदेनोक्तम्--'माषं गां दापयेद्दण्डं द्वौ माषौ महिषीं तथा । तथा ऽजाऽविकवत्सानां दण्डः स्यादर्धमाषिकः ॥' इति तत्पुनःप्ररोहयोग्यमूलावशेष भक्षणविषयम् ॥ १५९ ॥ अपराधातिशयेन ऋचिद्दण्डद्वैगुण्यमाह भक्षयित्वोपविष्टानां यथोक्ताद्विगुणो दमः । यदि पशवः परक्षेत्रे सस्यं भक्षयित्वा तत्रैवानिवारिताः शेरते तदा यथो क्ताद्दण्डाद्विगुणो दण्डो वेदितव्यः । सवत्सानां पुनर्भक्षयित्वोपविष्टानां यथो क्तदृण्डाचतुर्गुणो दण्डो वेदितव्यः । ‘वसतां द्विगुणः प्रोक्तः सवत्सानां चतुर्गुण क्षेत्रान्तरे पश्धन्तरे चातिदेशमाह सममेषां विवीतेऽपि खरोष्ट्र महिषीसमम् ।। १६० ।। विवीतः प्रचुरतृणकाष्ठो रक्ष्यमाणः परिगृहीतो भूप्रदेशः । तदुपघातेऽपीतर क्षेत्रदण्डेन समं दण्डमेषां महिष्यादीनां विद्यात् । खराश्च उष्ट्राश्च खरोष्ट्र तन्म हिषीसमम् । महिषी यत्र यादृशेन दण्डेन दण्ड्यते तत्र तादृशेनैव दण्डेन खरोष्ट्रमपि प्रत्येकं दण्डनीयम् । सस्योपरोधकत्वेन खरोष्ट्रयोः प्रत्येकं महिषी तुल्यत्वाद्दण्डस्य चापराधानुसारित्वात्खरोष्ट्रमिति समाहारो न विवक्षितः ॥ १६० ॥ परसस्यविनाशे गोस्वामिनो दण्ड उक्तः । इदानीं भेत्रस्वामिने फलमप्यसौ दापनीय इत्याह यावत्सस्यं विनश्येतु तावत्स्यात्क्षेत्रिणः फलम् । गोपस्ताड्यश्च गोमी तु पूर्वोत्तं दण्डमर्हति ।। १६१ ।। सस्यग्रहणं क्षेत्रोपचयोपलक्षणार्थम् । यस्मिन्क्षेत्रे यावत्पलालधान्यादिकं गावा दिभिर्विनाशितं तावत्क्षेत्रफलमेतावति क्षेत्रे एतावद्भवतीति सामन्तैः परिक ल्पितं तत्क्षेत्रस्वामिने गोमी दापनीयः । गोपस्तु ताडनीय एव न फलं दाप नीयः । गोपस्य च ताडनं पूर्वोक्तधनदण्डसहितमेव पालंदोषेण सस्यनाशे द्रष्ट व्यम् । ‘या नष्टा पालदोषेण गौस्तु सस्यानि नाशयेत् । न तत्र गोमिनो दण्डः पालस्तं दण्डमर्हति ॥’ इति वचनात् ॥ गोमी पुनः स्वापराधेन सस्यनाशे १ गां तद्विगुणं घ. २ गोमिनां दण्डः ख. ।