पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दायविभागप्रकरणम् ८] मिताक्षरासहिता । दुर्भिक्षे कुटुम्बभरणार्थ, धर्मकार्ये अवश्यकर्तव्ये, व्याधौ च, संप्रैतिरोधके बन्दिग्रहणनिग्रहादौ द्रव्यान्तरहितः स्त्रीधनं गृह्णन्भत न पुनर्दातुमर्हति । प्रकारान्तरेणैापहरन्दद्यात् । भर्तृव्यतिरेकेण जीवन्त्याः स्त्रिया धनं केनापि दाया देन न ग्रहीतव्यम् । (मनुः ८॥२९)-‘जीवन्तीनां तु तासां ये तद्धरेयुः स्वबान्धवाः । ताञ्छिष्याच्वोरदण्डेन धार्मिकः पृथिवीपति ॥' इति दण्डवि धानात् । तथा (मनुः ९॥२०० )–“पत्यौ जीवति यः स्त्रीभिरलंकारो धृतो भवेत् । न तं भजेरन्दायादा भजमानाः पतन्ति ते ॥’ इति दोषश्रवणाञ्च ॥ १४७॥ आधिवेदनिकं स्त्रीधनमुत्तं तदाह अधिविन्नस्त्रियै दद्यादाधिवेदनिकं समम् । न दत्तं स्त्रीधनं ययै दत्त त्वधैं प्रकीर्तितम् ॥ १४८ ॥ यस्या उपरि विवाहः साधिविन्ना साचासौ स्त्री चेल्यधिविन्नस्री तस्यै अधि विन्नस्त्रियै आधिवेदनिकमधिवेदननिमित्तं धनं समं यावदधिवेदनार्थ व्ययीकृतं तावद्दद्यात् । यसै भत्री श्वशुरेण वा स्त्रीधनं न दत्तम् । दत्ते पुनः स्त्रीधने आधिवेदनिकद्रव्यस्यार्ध दद्यात् । अर्धशब्दश्चात्र समविभागावचनो न भवति । अतश्च यावता तत्पूर्वदत्तमाधिवेदनिकस्मं भवति तावद्देयमित्यर्थः ॥ १४८ ॥ एवं विभागमुक्त्वा इदानीं तत्संदेहे निर्णयहेतूनाह विभागनिह्नवे ज्ञातिबन्धुसाक्ष्यभिलेखितैः । विभागभावना ज्ञेया गृहक्षेत्रैश्च यौतकैः ॥ १४९ ।। विभागस्य निह्नवे अपलापे ज्ञातिभिः पितृबन्धुभिर्मातृबन्धुभिः मातुलादिभि साक्षिभिः पूर्वोक्तलक्षणैलेंख्येन च विभागापत्रेण विभागभावना विभागनिर्णयोः ज्ञातव्यः । तथा यौतेकैः पृथकृतैर्तृहक्षेत्रैश्च । पृथकृष्यादिकार्यप्रवर्तनं पृथक्पञ्च महायज्ञादिधर्मानुष्ठानं च नारदेन विभागलिङ्गमुक्तम् —‘विभागधर्मसंदेहे दाया दानां विनिर्णयः । ज्ञातिभिर्भागलेख्येन पृथकार्यप्रवर्तनात् ॥ भ्रातृणामविभ क्तानामेको धर्मः प्रवर्तते । विभागे सति धर्मोऽपि भवेत्तषां पृथक् पृथक् ॥’ इति । तथाऽपराण्यपि विभागलिङ्गानि तेनैवोक्तानि–‘साक्षित्वं प्रातिभाव्यं च दानं ग्रहणमेव च । विभक्ता भ्रातरः कुर्युर्नाविभक्ताः कथंचन ।।' इति ॥ १ ४९ ॥ इति रिक्थविभागप्रकरणम् । ७ १ संप्रतिरोधक इति व्याधिविशेषणं कार्यानुष्ठानबाधक इति च तदर्थ इत्याह वाचस्पतिः २ णापहृतं दद्यात घ. ३ धृतो भत्रदिना तस्यै दत्तः स तया धृत इत्यर्थः. ४ श्वशुरेण भत्रौ वा ख. ५ यौतकैः पृथकृतैर्गुहक्षेत्रैरिति विशेषणविशेष्यभावः व्य० मयूखे. ६ इदं पद्य घ. पुस्तकेऽधिकं. ७ तेनैव नारदेन