पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दायविभागप्रकरणम् ८] मिताक्षरासहिता । २१५ ग्रासाच्छादनभाजनाः ॥’ इति । सवर्णा दत्तकक्षेत्रजाद्यते सत्यौरसे चतुर्थाशह राः । असवर्णाः कानीनगूढोत्पन्नसहोढजपौनर्भवास्ते त्वौरसे सति न चतुर्था शहराः किंतु प्रासाच्छादनभाजनाः । यदपि विष्णुवचनम्--'अप्रशस्तास्तु कानीनगूढोत्पन्नसहोढजा । पौनर्भवश्च नैवैते पिण्डरिक्थांशभागिन ।।' इति । तदप्यौरसे सति चतुर्थाशनिषेधपरमेव । औरसाद्यभावे तु कानीनादीनामपि सकलपित्र्यधनग्रहणमस्त्येव । ‘पूर्वाभावे परः परः’ इति वचनात् । यदपि मनुवचनम् ( ९॥१६३)-“एक एवौरसः पुत्रः पित्र्यस्य वसुनः प्रभुः । शेषा ण्णामानृशंस्यार्थ प्रदद्यातु प्रजीवनम् ।।' इति, तदपि दत्तकादीनामैौरसप्रतिकूलत्वे निर्गुणत्वे च वेदितव्यम्। तत्र क्षेत्रजस्य विशेषो दर्शितस्तेनैव (मनुः ९॥१६४) –“षष्ठं तु क्षेत्रजस्यांशं प्रदद्यात्पैतृकाद्धनात् । औरसो विभजन्दायं पित्र्यं पञ्च ममेव वा ॥’ इति प्रतिकूलत्वनिर्गुणत्वसमुच्चये षष्टमंशम्, एकतरसद्भावे पञ्च ममिति विवेक्तव्यम् ॥ यदपि मनुना पुत्राणां षङ्कद्वयमुपन्यस्य पूर्वषङ्कस्य दायादबान्धवत्वं, उत्तरषङ्कस्यादायादबान्धवत्वमुक्तम् (मनुः ९॥१५९॥१६०)- ओरसः क्षेत्रजश्व दत्तः कृत्रिम एव च । गूढोत्पन्नोऽपविद्धश्च दायादा बान्ध वाश्च षट् ॥ कानीनश्च सहोढश्च क्रीतः पौनर्भवस्तथा । स्वयंदत्तश्च शौद्रश्च षड दायाद्बान्धवाः ॥' इति, तदपि स्वपितृसपिण्डसमानोद्दुकानां संनिहितरिक्थह रान्तराभावे पूर्वषङ्कस्य तद्विक्थहरत्वमुत्तरषङ्कस्य तु तन्नास्ति । बान्धवत्वं पुनः समानगोत्रत्वेन सपिण्डत्वेन चोदकप्रदानादिकार्यकरत्वं वर्गद्वयस्यापि मेवेति व्याख्येयम् ॥ (मनुः ९॥१४२)-‘गोत्ररिक्थे जनयितुर्न भजेद्दत्रिम सुतः । गोत्रैरिक्थानुगः पिण्डो व्यपैति ददतः स्वधा ॥' इत्यत्र दत्रिमग्रहणस्य पुत्रप्रतिनिधिप्रदर्शनार्थत्वात् । पितृधनहारित्वं तु पूर्वस्य पूर्वस्याभावे सर्वेषाम विशिष्टम् । (मनुः ९॥१८५)–‘न भ्रातरो न पितरः पुत्रा रिक्थहराः पितुः । इत्यौरसव्यतिरिक्तानां पुत्रप्रतिनिधीनां सर्वेषां रिक्थहारित्वप्रतिपादनपरत्वात् । ओरसस्य तु ( मनुः ९॥ १६३)–“एक एवौरसः पुत्रः पित्र्यस्य वसुनः प्रभुः ।’ इत्यनेनैव रिक्थभाक्त्वस्योक्तत्वात् । दायादशब्दस्य ‘देायादानपि दापयेत्’ इ त्यादौ पुत्रव्यतिरिक्तरिक्थभाग्विषयत्वेन प्रसिद्धत्वाच। वासिष्ठादिषु वर्गद्वयेऽपि कस्यचिव्यत्ययेन पाठो गुणवद्गुणवद्विषयो वेदितव्यः । गौतमीये तु ‘पैौत्रिके यस्य दशमत्वेन पाठो विजातीयविषयः । तस्मात्स्थितमेतत्पूर्वपूर्वाभावे परः परों ऽशभागिति ॥ यत्तु (९॥ १८२) –“भ्रातृणामेकजातानामेकश्चेत्पुत्रवान्भवेत् । सैवें तें तेन पुत्रेण पुत्रिणो मनुरब्रवीत् ।।' इति । तदपि भ्रातृपुत्रस्य पुत्रीकरण संभवेऽन्येषां पुत्रीकरणनिषेधार्थम्, न पुनः पुत्रत्वप्रतिपादनाय । ‘तत्सुता गोत्र जा बन्धुः-' इत्यनेन विरोधात् ॥ १३२ १ गोत्रेति गोत्ररिक्थे अनुगच्छतीति गोत्ररिक्थानुगः प्रायस्तत्समनियत इति यावत् । दत्रिमः केवलः द्यामुष्यायणे गोत्राद्यनुवृत्तः । पिण्डः श्राद्धमौध्र्वदेहिकादीति मेधातिथिकुछूक भट्टादयः पिण्डः सापिण्ड्यं, स्वधौध्र्वदेहिकश्राद्धादीत्यपरे व्य. म. २ (मनुः ८॥१६०)'दान प्रतिभुवि प्रेते' इति पूर्वार्धमंस्य: दानप्रतिभुवि तु पितरि मृते पुत्रं ऋणं दापयेदिति तस्यार्थ ३ सर्वास्तॉस्ते इति पाठ