पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिव्यप्रकरणम् ७] १ द्वादशाडुलप्रमाणाना घ . मिताक्षरासहिता। व्रीहीन् ख न्मण्डलान्तरम् ।' अष्टाभिर्मण्डलैरेवमडुलानां शतद्वयम् । चत्वारिंशत्समधिकं भूमेरङ्गुलमानत इति । अयमर्थ -अवस्थानमण्डलात्षोडशाङ्गुलान्मण्ड लान्तरमन्यन्मण्डलम् । द्वितीयाद्येकमेकं द्वात्रिंशदङ्गुलं सान्तरालं तदेवमवस्था नमण्डलं षोडशाङ्गुलम् । गन्तव्यानि च सप्त मण्डलानि सान्तरालानि द्वात्रिंश दङ्गुलानि । एवमष्टाभिर्मण्डलैश्चत्वारिंदशाधिकं शतद्वयं भूमेरङ्गुलमानतोऽङ्गुलमा नमिति सार्वविभक्तिकस्तसिः । अस्मिस्तु पक्षेऽवस्थानमण्डलं षोडशाङ्गुलं विधाय द्वात्रिंशदङ्गुलप्रमाणानां ससानां सान्तरालमण्डलभूभागानामेकमेकं भूभार्ग द्विधा विभज्यान्तरालभूभागान्षोडशाङ्गुलप्रमाणान्विहाय मण्डलभूभागेषु षोड शाङ्गुलप्रमाणेषु गन्तृपदप्रमाणानि सप्त मण्डलानि कार्याणि । तथा तेनैवो क्तम्—‘मण्डलस्य प्रमाणं तु कुर्यात्तत्पदसंमितम्’ इति । यत्तु पितामहेनो तम—‘कारयेन्मण्डलान्यष्टौ पुरस्तान्नवमं तथा । आङ्गेयं मण्डलं चाद्य द्वितीयं वारुणं स्मृतम् ॥ तृतीयं वायुदैवत्यं चतुर्थ यमदैवतम् । पञ्चमं त्विन्द्रदैवस्यं षष्ठं कौबेरमुच्यते ॥ सप्तसमं सोमदैवत्यं सावित्रं त्वष्टमं तथा । नवमं सर्वदैवत्यमिति दिव्यविदो विदुः ॥ द्वात्रिंशदङ्गुलं प्राहुर्मण्डलान्मण्डलान्तरम् । अष्टाभिर्मण्डलै रेवमडुलानां शतद्वयम् ॥ षट्पञ्चाशत्समधिकं भूमेस्तु परिकल्पना । कर्तुः पद् समं कार्य मण्डलं तु प्रमाणतः ॥ मण्डले मण्डले देयाः कुशाः शास्त्रप्रचोदिताः ।।' इति ।–‘तत्रै नवमं सर्वदैवत्यमपरिमिताङ्गुलप्रमाणं मण्डलं विहायाष्टाभिर्मण्ड लैरष्टाभिश्चान्तरालैः प्रत्येकं षोडशाङ्गुलप्रमाणैरङ्गुलानां षट्पञ्चाशदधिकं शतद्वयं संपद्यते । तत्रापि गन्तव्यानि ससैव मण्डलानि । यतः प्रथमे तिष्ठति नवमे क्षिपतीति न विरुद्धयते । अङ्गुलप्रमाणं च-‘तिर्यग्यवोदराण्यष्टावूध्व वा ब्रीहयस्रयः । प्रमाणमङ्गलस्योक्त वितस्तिद्वदैशाङ्गुला ॥ हस्तो वितस्तिद्वितयं दण्डो हस्तचतुष्टयम् । तत्सहस्रद्वयं क्रोशो योजनं तच्चतुष्टयम् ॥’ इति बोद्ध व्यम् ॥ १०६ ॥ सप्त मण्डलानि गत्वा किं कर्तव्यमित्यत आह मुक्त्वात्रिं मृदितव्रीहिरदग्धः शुद्धिमाप्नुयात् । । अष्टमे मण्डले स्थित्वा नवमे मण्डलेऽस्रितसमयःपिण्डं त्यक्त्वा व्रीहीन्कराभ्यां मर्दयित्वाऽदग्धहस्तश्चच्छुद्धिमाभुयात् । दग्धहस्तश्चदशुद्ध इत्यर्थसिद्धम् । यस्तु संत्रासात्प्रस्खलन्हस्ताभ्यामन्यत्र दह्यते तथाप्यशुद्धो न भवति । यथाह कात्यायनः–‘प्रस्खलन्नभिशस्तश्चेत्स्थानादन्यत्र दह्यते । अदग्धं तं विदुर्दैवास्तस्य भूयोऽपि दापयेत् ॥’ इति ॥ अन्तरा पतिते पिण्डे संदेहे वा पुनर्हरेत् ।। १०७॥ यदा गच्छतोऽन्तराष्टममण्डलादर्वागेव पिण्डः पतति दग्धादग्धत्वे वा १८९ २ तन्नवम ख-ग. ३ द्वादशाङ्गुलः ख. ४ कराभ्या