पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिव्यप्रकरणम् ७ 1 मिताक्षरासहिता । १८७ इदानीं क्रमासमझिदिव्यमाह करौ विमृदितत्रीहेर्लक्षयित्वा ततो न्यसेत् । सप्ताश्वत्थस्य पत्राणि तावत्सूत्रेण वेष्टयेत् ।। १०३ ।। दिव्यमातृकोक्तसाधारणधर्मेषु सत्सु तुलाविधानोक्तधर्मावाहनाद्विशिरःपत्रा शेपणान्ते च विध्यन्ते सत्ययमग्निविधौ विशेष । विमृदितव्रीहेर्विमृदिता विघ ििर्षता ब्रीहयः कराभ्यां येनासौ वेिमृदितव्रीहिस्तस्य करौ लक्षयित्वा तिलका लकत्रणकिणादिस्थानेष्वलक्तकरसादिनाङ्कयित्वा । यथाह नारदः-हस्तक्ष तेषु सर्वेषु कुर्याद्धंसपदानि तु’ इति । अनन्तरं सप्ताश्वत्थस्य पैर्णानि हस्तयोरञ्ज लीकृतयोन्यैसेत्–“पत्रैरञ्जलिमापूर्य आश्वत्थैः सप्तभिः समैः’ इति स्मरणात् । तानि च हंस्तसहितानि सूत्रेण तावद्वेष्टयेत् । यावन्त्यश्वत्थपर्णानि सप्तकृत्वो वेष्टयेदित्यर्थः । सूत्राणि च सप्त शुक्कुानि भवन्ति–“वेष्टयीत सितैर्हस्तै सप्तभि सूत्रतन्तुभिः’ इति नारद्वचनात् । तथा सप्त शमीपत्राणि ससैव दूर्वापत्राणि चाक्षतांश्च दध्यक्तानक्षतांश्चाश्वत्थपत्राणामुपरि विन्यसेत्–“सप्त पिप्पलपत्राणि शमीपत्राण्यथाक्षतान् । दूर्वायाः सप्त पत्राणि दध्यक्तांश्चाक्षतान्यसेत् ॥' इति स्मरणात् । तथा कुसुमानि च विन्यसेत्-‘सप्त पिप्पलपत्राणि अक्षतान्सुमनो दधि । हस्तयोर्निक्षिपेत्तत्र सूत्रेणावेष्टनं तथा ।।' इति पितामहचचनात् । सुमनसः पुष्पाणि । यदपि स्मरणम्-“अयस्तसं तु पाणिभ्यामर्कपत्रैस्तु सप्तभिः । अन्तर्हितं हरन् शुद्धस्त्वदग्धः ससमे पदे ॥’ इति तद्दश्वत्थपत्रा भावेऽर्कपत्रविषयं वेदितव्यम् । अश्वत्थपत्राणां पितामहप्रशंसावचनेन मुख्य स्वावगमात्-*पिप्पलाज्जायते वह्निः पिप्पलो वृक्षराट् स्मृतः । अतस्तस्य तु पत्राणि हस्तयोर्विन्यसेदुधः ।।' इति ॥ १०३ ॥ कर्तुरश्यभिमत्रणमाह त्वमग्रे सर्वभूतानामन्तश्चरसि पावकः । साक्षिवत्पुण्यपापेभ्यो बूहेि सत्यं कवे मम ।। १०४ ।। हे अझे, त्वं सर्वभूतानां जरायुजाण्डजस्वदजोद्विजानामन्तः शरीराभ्यन्तरे चरसि उपभुक्तान्नपानादीनां पाचकत्वेन वर्तसे । पावक शुद्धिहेतो, कवे क्रान्त दर्शिन्, साक्षिवत्पुण्यपापेभ्यः सत्यं ब्रूहि । पुण्यपापेभ्य इति ल्यब्लोपे पञ्चमी । पुण्यपापान्यवेक्ष्य सत्यं ब्रूहि दर्शयेत्यर्थः । अयःपिण्डे त्रिभिस्तापैः संतसे संदंशेन पुरत आनीते कर्ता पश्चिममण्डले प्राङ्झुखस्तिष्ठन् अनेन मत्रेणाझिं अभिमन्त्रयेत् । यथाह नारदः–“अग्निवर्णमयःपिण्डं सस्फुलिङ्गं सुरक्षितम् । तापे तृतीये संताप्य चूयात्सत्यपुरस्कृतम् ॥’ इति । अस्यार्थः-लोहशुद्धयथै सुतसं लोहपिण्ड १ अििवधिं ग. अििवधानं घ. २ तावत्सूत्रेण तावतां सूत्राणां समाहारस्तावत्सूत्रं तेन । सप्तसूत्र्या सकृदेव वेष्टयेदित्यर्थः. तावत्सूत्राणि वेष्टयेत् ख. ३ पत्राणि घ. ४ स्वहस्तसहितानि घ. ५ अन्तर्हितं रह:शुद्धं ख. अन्तर्हितैर्हरन् ग या० १९