पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तथा लेख्यप्रकरणम् ६] १७५ साक्षिणश्च स्वहस्तेन पितृनामकपूर्वकम् अत्राहममुकः साक्षी लिखेयुरितेि ते समाः ॥ ८७ ।। मिलेख्ये ये साक्षिणो लिखितास्तेऽप्यात्मीयपितृनामलेखनपूर्वकं अस्मिन्नर्थेऽयममुको देवदत्तः साक्षीति स्वहस्तेनैकैकशो लिखेयुः । तेच समा संख्यातो गुणतश्च कर्तव्याः । यद्यधमर्णः साक्षी वा लिपिज्ञो न भवति तदा धमणेऽन्येन साक्षी व साक्ष्यन्तरेण सर्वसाक्षिसंनिधौ स्वमतं लेखयेत् । यथाह आलिपेिज्ञ ऋणी य स्यात्स्वमतं तु स लेखयेत् । साक्षी वा साक्षि णान्येन सर्वसाक्षिसमीपतः ॥’ इति ॥ ८७ ॥ उभयाभ्यर्थितेनैतन्मया ह्यमुकसूनुना । लिखितं ह्यमुकेनेति लेखकोऽन्ते ततो लिखेत् ॥ ८ ॥ अपिच । ततो लेखक उभाभ्यां धनिकाधमणैिकाभ्यां प्रार्थितेन मयामुकेन देवदत्तेन विष्णुमित्रसूनुना एतलेख्यं लिखितमित्यन्ते लिखेत् सांप्रतं स्वकृतं लेख्यमाहः विनापि साक्षिभिलेंख्यं खहस्तलिखितं तु यत् । तत्प्रमाणं स्मृतं लेख्यं बलोपधिकृतादृते ।। ८९ ।। यलेख्यं स्वहस्तेन लिखितमधमर्णेन तत्साक्षिभिर्विनापि प्रमाणं स्मृतं मन्वाः दिभिः । बलोपधिकृतादृते. बलेन बलात्कारेण उपधिना छललोभक्रोधभयमदा दिलक्षणेन यत्कृतं तस्माद्विना नारदोऽप्याह-“मत्ताभियुक्तस्त्रीबालबला त्कारकृतं च यत् । तदप्रमाणं लिखितं भयोपधिकृतं तथा ॥’ इति । तैचैतत्स्व हस्ततं कृतं च यलेख्यं देशाचारानुसारेण सर्बन्धकव्यवहारेऽबन्धकव्यवहारे युक्तमर्थक्रमापरिलोपेन लिप्यक्षरापरिलोपेन च लेख्यमित्येतावत् न पुनः साधुः शब्दैरेव, प्रातिस्विकदेशभाषयापि लेखनीयम् यथाह नारदः-“देशा चाराविरुद्धं यङद्यक्ताधिविधिलक्षणम् । तत्प्रमाणं स्मृतं लेख्यमविलुसक्रमा रम् ॥’ इति । विधानं विधिः आधेर्वेिधिराधिविधिराधीकरणं तस्य लक्षणं गोप्या धिभोग्याधिकालकृतमित्यादि तद्यत्तं विस्पष्टं यमिस्तब्द्यक्ताधिविधिलक्षणम् । अविलुसक्रमाक्षरं । अक्षराणां क्रमः क्रमश्चाक्षराणि च क्रमाक्षराणि अविलुसानि क्रमाक्षराणि यमिस्तदविलुप्तक्रमाक्षरै । तदेवंभूतं लेख्यं प्रमाणम् । राजशासन वन्न साधुशब्दनियमोऽत्रेत्यभिप्राय ॥ ८९ ॥ लेख्यप्रसङ्गेन लेख्यारूढमप्यूणं त्रिभिरेव देयमित्याह ऋणं लेख्यकृतं देयं पुरुषैस्त्रिभिरेव तु । घथा साक्ष्यादिकृतमृणं त्रिभिरेव देयं तथा लेख्यकृतमप्याहर्तृर्तत्पुत्रतत्पुत्रै १ काभ्यामुभाभ्यां ख. २ विना तु ख. ३ तत्रैतत् घ. ४ कृतं च लेख्यं ग. ५ सबन्ध व्यवहारे च ख. ६ तत्पुत्रपौत्रै १८ मिताक्षरासहिता । ८८