पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७४ अथ लेख्यप्रकरणम् ६ भुक्तिसाक्षिणौ निरूपितैौ । सांप्रतं लेख्यं निरूप्यते । तत्र लेख्यं द्विविधं शासनं जानपदं चेति । शासनं निरूपितम् । जानपदमभिधीयते । तच द्विविधम् स्वहस्तकृतभैन्यकृतं चेति । तत्र स्वहस्तकृतमसाक्षिकं अन्यकृतं ससाक्षिकम् । अनयोश्च देशाचारानुसारेण प्रामाण्यम् । यथाह नारद –“लेख्यं तु द्विविध ज्ञेयं स्वहस्ताऽन्यकृतं तथा । असाक्षिमत्साक्षिमच सिद्धिर्देशस्थितेस्तयोः ॥' इति [ व्यवहाराध्याय यः कश्चिदर्थो निष्णातः खरुच्या तु परस्परम् । लेख्यं तु साक्षिमत्कार्ये तमिन्धनिकपूर्वकम् ।। ८४ ।। धनिकाधमर्णयोयोऽथ हिरण्यादिः परस्परं स्वरुच्या इयता कालेनैतावद्देय मियती च प्रतिमासं वृद्धिरिति निष्णातो व्यवस्थितः तस्मिन्नर्थे कालान्तरे विप्र तिपत्तौ वस्तुतत्त्वनिर्णयाथै लेख्यं साक्षिमदुक्तलक्षणसाक्षियुक्तं धनिकपूर्वकं धनिकः पूर्वो यमिस्तद्धनिकपूर्वकम् । धनिकनामलेखनपूर्वकमितियावत् । कार्य कर्तव्यम् । उक्तलक्षणाः साक्षिणो वा कर्तव्याः–‘कर्ता तु यत्कृतं कार्य सिद्धयर्थ तस्य साक्षिण । प्रवर्तन्ते विवादेपु स्वकृतं वाथ लेख्यकम् ॥' इति स्मरणात् ॥ ८४ ॥ समामासतदधाहनमजातिखगोत्रकै सब्रह्मचारिकात्मीयपितृनामादिचिह्नितम् ॥ ८५ । अपि च । समा संवत्सरः । मासचैत्रादिः । तदर्ध पक्षः शुक्रुः कृष्णो वा । अहस्तिथिः प्रतिपदादिः । नाम धनिकैर्णिकयोः । जातिब्रह्मणत्वादिः । स्वगोत्रं वासिष्ठादिगोत्रम् । एतैः समादिभिश्चिह्नितम् । तथा सब्रह्मचारिकं बह्वचादिशाखा प्रयुक्त गुणनाम बह्वचः कठ इति । आत्मीयपितृनाम धनिकर्णिकपितृनाम । आदिग्रहणाद्रव्यजातिसंख्याचैारादेर्यहणम् । एतैश्च चिह्नितं लेख्यं कार्यमिति मातेन संबन्ध समासेऽर्थे ऋणी नाम स्वहस्तेन निवेशयेत् । मतं मेऽमुकपुत्रस्य यदत्रोपरि लेखितम् ।। ८६ ।। किंच । धनिकाधमर्णयोर्योऽर्थः स्वरुच्या व्यवस्थितस्तस्मिन्नर्थे समासे लिखिते ऋणी अधमर्णो नामात्मीयं स्वहस्तेनामिछेख्ये यदुपरि लेखितं तन्ममामुक पुत्रस्य मतमभिप्रेतमिति निवेशयेत्पत्रे विलिखेत् ॥ ८६ ॥ १ मन्यहस्तकृतं गृ. २ धनिकाधमर्णिकयोः ख. ३ संख्यावारादेः ख. ग,