पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संक्षिप्रकरणम् ५] मिताक्षरासहिता । १७१ प्रतिज्ञावादिनौ मदीयमिदं दायादप्रासं मदीयमिदं दायादप्राप्तमिति प्रतिज्ञावा दिनोः पूर्वापरकालविभागानाकलितमेव वदतस्तत्र द्वयोः साक्षिषु सत्सु कस्य साक्षिणो ग्राह्या इत्याकाङ्कायां-द्वयोर्विवदतोरर्थे द्वयोः सत्सु च साक्षिषु । पूर्वपक्षो भवेद्यस्य भवेयुस्तस्य साक्षिण ॥’ इति वचनेन यः पूर्वं निवेदयति तस्य साक्षिणो ग्राह्या इति स्थिते तस्यार्पवादः ‘उत्तेऽपि साक्षिभिः साक्ष्ये इति । अतश्च पूर्वोत्तरयोर्वादिनोः समसंख्येषु समगुणेषु साक्षिषु सत्सु पूर्ववा दिन एव साक्षिणः प्रष्टव्या । यदा तु उत्तरवादिनः साक्षिणो गुणवत्तमा द्विगुणा वा तदा प्रतिवादिनः साक्षिणः प्रष्टव्याः । एवंचव नाभावस्य साध्यता । उभयोरपि भाववादित्वात्, चतुर्विधोत्तरविलक्षणत्वाञ्च प्रकृतोदाहरणे न क्रिया व्यवस्था । एकस्मिन्व्यवहारे तु यथैकस्यार्थिनः क्रियाद्वयं परमते तथा वादिप्रति वादिनोः क्रियाद्वयेऽप्यविरोध इति । तदप्येचाय नानुमन्यते—‘उत्तेऽपि सा क्षिभिः साक्ष्ये' इत्यपिशब्दादर्थात्प्रकरणाद्वास्यार्थस्यानवगमादित्य लं प्रसङ्गेन ॥८०॥ कूटसाक्षिणो दर्शितास्तेषां दण्डमाह पृथक्पृथग्दण्डनीयाः कूटकृत्साक्षिणस्तथा । विवादाद्विगुणं दण्डं विवास्यो ब्राह्मणः स्मृतः ॥ ८१ ॥ यो धनदानादिना कूटान्साक्षिणः करोतीति स कूटकृत साक्षिणश्च ये तथा कूटास्ते विवैदान्नाम विवादपराजयात्पराजये यो दण्डस्तत्र तत्रोक्तस्तं दण्डं द्विगुणं पृथक्पृथगेकैकशो दण्डनीया । ब्राह्मणस्तु विवास्यो राष्ट्रान्निर्वास्यो नं दण्डनीय । एतच्च लोभादेकारणविशेषापरिज्ञाने अनभ्यासे च वेदितेंव्यम् । लोभैदिकारणविशेषपरिज्ञानेऽभ्यासे च मनुनोक्तम् (८॥१२०॥२१)-‘लोभा त्सहस्त्रं दण्ड्यः स्यान्मोहात्पूर्वं तु साहसम् । भैयाद्वैौ मध्यमौ दण्डैौ मैत्र्या त्पूर्व चतुर्गुणम् ॥ कामाद्दशगुणं पूर्वं क्रोधातु त्रिगुणं परम् । अज्ञानाद्वे शते पूर्णे बालिश्याच्छतमेव तु ।।' इति । तत्र लोभोऽर्थलिप्सा । मोहो विपर्ययज्ञानम् । भयं संत्रासः । मैत्री खेहातिशयः । कामः स्त्रीव्यैतिकराभिलाषः । क्रोधोऽमर्षः । अज्ञानमस्फुटानम् । बालिश्यं ज्ञानानुत्पाद । सहस्रादिषु तात्रिकाः पणा गृह्यन्ते । तथा (मनुः ८॥१२३)-‘कौटसाक्ष्यं तु कुर्वाणांस्त्रीन्वर्णान्धार्मिको नृपः । प्रवासयेद्दण्डयित्वा ब्राह्मणं तु विवासयेत् ॥’ इति । एतचाभ्यासविष यम् । कुर्वाणानिति वर्तर्मननिर्देशात् । त्रीन्वर्णान्क्षत्रियादीन् पूर्वोक्तं दण्डयित्वा प्रवासयेन्मारयेत् । अर्थशाखे प्रवासशब्दस्य मारणे प्रयोगात्, अस्य चार्थशास्त्र रूपत्वात् । तत्रापि प्रवासनमोष्टच्छेदनं जिह्वाच्छेदनं प्राणवियोजनं च कौटसा क्ष्यविषयानुसारेण द्रष्टव्यम् । ब्राह्मणं तु दण्डयित्वा विवासयेत् स्वराष्ट्रान्निष्का १ पवादमाह ख. २ प्याचार्या नानुमन्यन्ते ध. ३ विवादाद्विवादपराजये ख. विवादात्प राजये ग. ४ न दण्ड्याः ग-घ. ५ द्रष्टव्यम् ख-ग. ६ लोभालोभेन मिथ्याभिधाने.७ भयादौ मध्यमो दण्डो ख. ८ पूर्व प्रथमसाहसमेव. ९ स्रीव्यतिरेकाभि ख. १० वर्तमानकाल ख. ११ शास्रस्वरूप ख