पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

याज्ञवल्क्यस्मृतिः । [ व्यवहाराध्यायः क्रियते। । नैष दोषः । यत –‘क्रियां बलवतीं मुक्त्वा दुर्बलां योऽवल म्बते । स जयेऽवध्टते सभ्यैः पुनस्तां नामुयात्क्रियाम् ॥’ इति कात्यायनेन जयावधारणोत्तरकालं क्रियान्तरपरिग्रहनिषेधाजयावधारणात्प्राक् क्रियान्तरप रिग्रहो दर्शित । नारदेनापि–“निर्णिक्त व्यवहारे तु प्रमाणमफलं भवेत्’ इति वदता जयावधारणोत्तरकालमेव प्रमाणान्तरं निषिद्धं न प्रागपि । तस्मा दुतेऽपि साक्षिभिः साक्ष्येऽपरितुष्यता क्रियान्तरमङ्गीकर्तव्यमिति स्थितम् । एवं स्थिते यद्यभिहितवचनेभ्यः साक्षिभ्यो गुणवत्तमा द्विगुणा वा पूर्वनिर्दिष्टा असन्निहिताः साक्षिणः सन्ति तदा त एव प्रमाणीकर्तव्याः-‘स्वभावेनैव यडू युस्तद्वाह्य व्यावहारिकम्’ इत्यस्य सर्वव्यवहारशेषत्वात्–‘निर्णिक्ति व्यवहारे तु प्रमाणमफलं भवेत् । लिखितं साक्षिणो वापि पूर्वमावेदितं न चेत् ॥’ इति नारद्वचनाञ्च । पूर्वनिर्दिष्टानामसंभवे त्वनिर्दिष्टा अपि तथाविधाः साक्षिण एव ग्राह्या न दिव्यम् । –“संभवे साक्षिणां प्राज्ञो वर्जयेद्वैविकीं क्रियाम्’ इति स्मरणात् । तेषामसंभवे दिव्यं प्रैमाणीकर्तव्यम् । अतःपरमपरितुष्यताप्य ििर्थना न प्रमाणान्तरमन्वेषणीयैमवचनादिति परिसमापनीयो व्यवहारः । यत्र तु प्रत्यर्थिनः स्वप्रत्ययविसंवादित्वेन साक्षिवचनस्याप्रामाण्यं मन्यमानस्य साक्षिषु दोषारोपणेनापरितोषस्तत्र प्रत्यर्थिनः क्रियोपन्यासावसराभावात्ससाहावधिकदैवि कराजिकव्यसनोद्भवेन साक्षिपरीक्षणं कर्तव्यम् । तत्र च साक्षिणो दोषावधारणे विवादास्पदीभूतमृणं दाप्याः, सारानुसारेण दण्डनीयाश्च । अथ दोषंानवधारणं तदा प्रत्यर्थिना तावता संतोष्टव्यम् । यथाह मनुः (८।१०८)–‘यस्य दृश्येत सप्ताहादुक्तवाक्यस्य साक्षिण । रोगोऽग्निज्ञतिमरणमृणं दाप्यो दमं च सः ॥ इति । एतञ्च–‘यस्योचुः साक्षिणः सत्यां प्रतिज्ञां स जयी भवेत्’ इत्यस्यपरि तुष्यत्प्रत्यर्थिविषयेऽपवादो द्रष्टव्यः । केवितु ‘उक्तऽपि साक्षिभिः साक्ष्ये इत्येतद्वचनमर्थिना निर्दिष्टषु साक्षिष्वथ्र्यनुकूलमभिहितवत्सु यदि प्रत्यर्थी गुण वत्तमान्द्विगुणान्वान्यान्साक्षिणः पूर्वोक्तविपरीतं संवादयति तदा पूर्ववादिन साक्षिणः कूटा इति व्याचक्षते । तदसत् । प्रत्यर्थिनः क्रियानुपपत्तेः । तथाहेि । अर्थी नाम साध्यस्यार्थस्य निर्देष्टा, तत्प्रतिपक्षतदभाववादी प्रत्यथ पत्राभावस्य भाबसिद्धिसापेक्षसिद्धित्वाद्भावस्य चैवाभावसिद्धिनिरपेक्षसिद्धित्वाद्धावस्यैव साध्यत्वं युक्तम् । अभावस्यै स्वरूपेण साक्ष्यादिप्रमेयस्वाभावात् । अतश्चार्थिन एव क्रिया युक्ता । अपिचोत्तरानुसारेण सर्वत्रैव क्रिया नियता स्मर्यते—‘प्राङ्न्यायकार णोक्तौ तु प्रत्यर्थ निर्दिशेत्क्रियाम् । मिथ्योक्तौ पूर्ववादी तु प्रतिपत्तौ न सा भवेत् ॥’ इति । न चैकस्मॅिन्व्यवहारे द्वयोः क्रिया ।–‘नचैकस्मिन्विवादे तु क्रिया स्याद्वादिनोर्द्धयोः' इति स्मरणात् । तस्मात्प्रतिवादिनः साक्षिणो गुण वन्तमा द्विगुणा वान्यथा ब्रूयुरित्यनुपपन्नम् ॥ अथ मतम् । यत्र द्वावपि भाव १ तथाविधा एव साक्षिणो ग्राह्याः ख. २ प्रमाणं कर्तव्यं ख. ३ मनुवचनात् ख. यमवच नात् घ. ४ दोषावधारणं ख. ५ वाभावनिरपेक्ष ख. ६ अभावस्वरूपेण ख. ७ कस्मिन्विवादे घ