१६८ याज्ञवल्क्यस्मृतिः । ‘पुराणैर्धर्मवचनैः सत्यमाहात्म्यकीर्तनैः । अनृतस्यापवादैश्च भृशमुत्रासयेदिमान् ॥ इति ॥ ७३ ॥ ७४ ॥ ७५ ॥ यदा तु श्राविताः साक्षिणः कथंचिन्न बूयुस्तदा किं कर्तव्यमित्यत आह अबुवन्हि नरः साक्ष्यमृणं सदशबन्धकम् । राज्ञा सर्व प्रदाप्यः स्यात्षट्चत्वारिंशकेऽहनि ॥ ७६ ।। यः साक्ष्यमङ्गीकृत्य श्रावितः सन् कथंचिन्न वदति स राज्ञा सर्व सवृद्धिक ऋणं धनिने दाप्यः सदशबन्धकं दशमांशसहितम् । दशमांशश्च राज्ञो भवति ।---- “राज्ञाधमर्णिको दाप्यः साधिताद्दशकं शतम्’ इत्युक्तत्वात् । एतच्च षट्चत्वारिंश केऽहनि प्रासे वेदितव्यम् । ततोऽवर्वाग्वदन्न दाप्यः इदं च व्याध्याद्युपप्लवरहितस्य । यथाह मनुः (८॥१०७)-‘त्रिपक्षाद्बुवन्साक्ष्यमृणादिपु नरोऽगदः । तदृणं प्रामुयात्सर्वं दशबन्धं च सर्वश ॥’ इति । अगद इति राजदेवोपप्वत्रिरहोप [ व्यवहाराध्यायः १ भृशं संत्रासयेत् ग . यस्तु जानन्नपि साक्ष्यमेव नाङ्गीकरोति दौरात्म्यात्तं प्रत्याहा न ददाति हि यः साक्ष्यं जानन्नपि नराधमः । स कूटसाक्षिणां पापैस्तुल्यो दण्डेन चैव हि ।। ७७ ।। यः पुनर्नराधमो विप्रतिपन्नमर्थ विशेषतो जानन्नपि साक्ष्यं न ददाति नाङ्गी करोति स कूटसाक्षिणां तुल्यः पापैः कृत्वा दण्डेन च । कूटसाक्षिणां च दण्डं चक्ष्यति । कूटसाक्षिणश्च दण्डयित्वा पुनव्र्यवहारः प्रवर्तनीय । ततोऽपि वा कौट साक्ष्ये विदिते निवर्तनीयः । यथाह मनुः (८॥११७)–“यस्मिन्यस्मिन्विवादे तु कौटसाक्ष्यं कृतं भवेत् । तत्तत्कार्य निवर्तेत कृतं चाप्यकृतं भवेत् ॥’ इति ॥७७॥ साक्षिविप्रतिपत्तौ कथं निर्णय इत्यत आह द्वैधे बहूनां वचनं समेषु गुणिनां तथा । गुणिद्वैधे तु वचनं ग्राह्य ये गुणवत्तमाः ॥ ७८ ॥ साक्षिणां द्वेधे विप्रतिपत्तौ बहूनां वचनं ग्राह्यम् । समेषु समसंख्येषु द्वैधे ये गुणिनस्तेषां वचनं प्रमाणम् । यदा पुनर्गुणिनां विप्रतिपत्तिस्तदा ये गुणवत्तमा श्रुताध्ययनतदर्थानुष्टानधनपुत्रादिगुणसंपन्नास्तेषां वचनं ग्राह्यम् । यत्र तु गुणिन कतिपये इतरे च बहवस्तत्रापि गुणिनामेव वचनं ग्राह्यम् -‘उभयानुमतः साक्षी भवत्येकोऽपि धर्मवित्’ इति गुणातिशयस्य मुख्यत्वात् । यत्तु भेदाद् साक्षिण इत्युक्तं तत्सर्वसाम्येनागृह्यमाणविशेषविषयम् ॥ ७८ ॥ साक्षिभिश्च कथमुक्त जयः कथं वा पराजय इत्यत आह यस्योचुः साक्षिणः सत्यां प्रतिज्ञां स जयी भवेत् । अन्यथावादिनो यस्य धुवस्तस्य पराजयः ॥ ७९ ।। २ कृतेऽपि कौटसाक्ष्ये घ. ३ यत्र गुणिनः .
पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/१९८
दिखावट