साक्षिप्रकरणम् ५] मिताक्षरासहिता । नानेन सान्त्वयन् । देवब्राह्मणसांनिध्ये साक्ष्यं पृच्छेदृतं द्विजान् । उदङ्घुखान्प्रा ड्झुखान्वा पूर्वाहे वै शुचिः शुचीन् ॥ आहूय साक्षिणः पृच्छेन्नियम्य शपथैर्भ शम् । समस्तान्विद्विताचारान्विज्ञातार्थान्पृथक्पृथकू ॥’ इति । तथा ब्राह्मणादिषु श्रावणे मनुना नियमो दर्शितः (८॥११३)–‘सलेयन शापयेद्विग्रं क्षत्रियं वाह नायुधैः । गोबीजकाञ्चनैवैश्यं शूद्रं सर्वेस्तु पातकै ॥’ इति । ब्राह्मणमन्यथा खेंवतः सत्यं ते नश्यतीति शापयेत् । क्षत्रियं वाहनायुधानि तव विफलानीति । गोबीजकाञ्चनादीनि तव विफलानि भविष्यन्तीति वैश्यम् । शूदमन्यथा बुव तस्तव सर्वाणि पातकानि भविष्यन्तीति शापयेत् । अत्र चापवादस्तेनैव दुर्शितः (८॥ १०२)–“गोरक्षकान्वाणिजकांस्तथा कारुकुशीलवान् । प्रेष्यान्वा धैषिकाँश्चैव विप्रान्शूद्ववदाचरेत् ॥’ इति । विप्रग्रहणं क्षत्रियवैश्ययोरुपलक्षणा र्थम् । कुशीलवा गायकाः । प्रतिवादिना साक्षिदूषणे दत्ते प्रत्यक्षयोग्यदूषणेषु बाल्यादिषु तथैव निर्णयः । अयोग्येषु तु तद्वचनालोकतश्च निर्णयो न साक्ष्य न्तरेणेति नानवस्था । यदि साक्षिदोषमुद्राच्य साधयितुं न शक्रोति प्रतिवादी तदासौ सारानुसारेण दण्ड्यः । अथ साधयति तदा न साक्षिण । यथाह “असार्धयन्दमं दाप्यो दूषणं साक्षिणां स्फुटम् । भाविते साक्षिणो वज्र्याः साक्षि धर्मनिराकृता ॥’ इति । उद्दिष्टषु च सर्वेषु साक्षिषु दुष्टेष्वर्थी यदा क्रिया न्तरनिरपेक्षस्तदा पराजितो भवति ।-“जितः स विनयं दाप्यः शास्त्रदृष्टेन कर्मणा । यदि वादी निराकाङ्कः साक्षिसत्ये व्यवस्थित ॥’ इति स्मरणात् । साकाङ्कश्चेत्क्रियान्तरमवलम्बेतेत्यभिप्रायः ॥ कथं श्रावयेदित्यत आह ये पातककृतां लोका महापातकिनां तथा ।। ७३ ।। अग्दिानां च ये लोका ये च स्त्रीबालघातिनाम् । स तान्सर्वानवानोति यः साक्ष्यमनृतं वदेत् ॥ ७४ ॥ सुकृतं यत्त्वयैा किंचिञ्जन्मान्तरशतैः कृतम् । तत्सर्वं तस्य जानीहि यं पराजयसे मृषा ॥ ७५ ॥ पातकोपपातकमहापातककारिणामग्दिानां स्रीबालघातिन च ये लोकास्ता न्सर्वानसावाप्तोति यः साक्ष्यमनृतं वदति । तथा जन्मान्तरशतैर्यत्सुकृतं कृतं तत्सर्वं तस्य भवति येस्तेऽनृतवदनेन पराजितो भवतीति श्रावयेदिति संबन्धः । एतच शूद्वविषयं द्रष्टव्यम्–“शशूद्रं सवैस्तु पातकैः’ इति शूद्रे सर्वपातकाव गणस्य विहितत्वात् । गोरक्षकादिद्विजातिविर्षेयं च । “ोरक्षकान्वाणिजकान् ’ इत्युक्तत्वात् । अॅन्यस्यानेकजन्मार्जितसुकृतसंक्रमणस्य महापातकादिफलप्रासे नृतवचनमात्रेणानुपपत्तेः साक्षिसंत्रासार्थमिदमुच्यते । यथाह नारद् १ बुवन्तं घ. २ दोषानुसारेण ख. ३ असाधयन् अभावयन्. ४ वृथा ख. ५ यस्तेऽनृत ववनेन ग. यस्तेनोऽनृतवदनेन घ. ६ श्रवणस्य घ. ७ विहितं च ध. ८ अन्यानेकख
पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/१९७
दिखावट