पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/१९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६४ ज्ञवल्क्यस्मृति १ श्रावितः ख. अथ साक्षिप्रकरणम् ८५ 'प्रमाणं लिखितं भुक्तिः साक्षिणश्चति कीर्तितम्’ इत्युक्तं तत्र भुक्तिर्निरू पिता । सांप्रतं साक्षिस्वरूपं निरूप्यते । साक्षी च साक्षाद्दर्शनाच्छूवणाच भवति । यथाह मनुः (८॥७४)-समक्षदर्शनात्साक्ष्यं श्रवणाचैव सिद्धयति’ इति । स च द्विविधः कृतोऽकृतश्चेति । साक्षित्वेन निरूपितः कृतः । अनिरूपितोऽकृतः । तत्र कृतः पञ्चविधोऽकृतश्च षङ्किध इत्येकादशविधः । यथाह नारदः–“एकादशविधः साक्षी शाखे दृष्टो मनीषिभिः । कृतः पञ्च विधेो ज्ञेयः षड़िधोऽकृत उच्यते ॥’ इति । तेषां च भेदस्तेनैव दर्शितः

  • लिखितः स्मारितश्चैव यदृच्छाभिज्ञ एव च । गूढश्चोत्तरसाक्षी च साक्षी पञ्च

विधः स्मृतः ।।' इति । लिखितादीनां च स्वरूपं कात्याथनेनोक्तम् “आर्थिना स्वयमानीतो यो लेख्ये संनिवेश्यते । स साक्षी लिखितो नाम स्मारित पत्रकादृते ।।' इनि । स्मारितः पत्रकादृत इत्यस्य विवरणं तेनैव कृतम्--'यस्तु कार्यप्रसिद्धयर्थ दृष्टा कार्य पुनः पुनः । मार्यते ह्यर्थिना साक्षी स सारित इहोच्यते ॥’ इत । यस्तु यदृच्छयागतः साक्षी क्रियते स यदृच्छाभिज्ञः । अनयोः पत्रानारूढत्वेऽपि भेदस्तेनेव दर्शित –‘प्रयोजनार्थमानीतः प्रसङ्गादाग तश्च यः । द्वौ साक्षिणौ त्वलिखितौ पूर्वपक्षस्य साधकौ ॥” इति । तथा

  • अर्थिना स्वार्थसिद्धयर्थ प्रत्यर्थिवचनं स्फुटम् । यः श्राच्यते स्थितो गूढो शूढसाक्षी

स उच्यते ।।' इति । तथा-‘साक्षिणामपि यः साक्ष्यमुपर्युपरि भाषते । श्रव याच्छूावणाद्वापि स साक्ष्युत्तरसंजितः ।।' इति । षड़िधस्याप्यकृतस्य भेदो नार देन दर्शित –‘ग्रामश्र प्राडिवाकश्च राजा च यवहारिणाम् । कार्येष्वधिकृतो यः स्यादर्थिना प्रहितश्च यः ॥ कुल्याः कुलविवादेषु विज्ञेयास्तेऽपि साक्षिणः ।।' इति । प्राड़िवाकग्रहणं लेखकसभ्योपलक्षणार्थम् ।–“लेखक: प्राडिवाकश्च संभ्याश्चैवानुपूर्वशः । नृपे पश्यति तत्कार्य साक्षिणः समुदाहृता ॥’ इति ॥ तेऽपि साक्षिणः कीदृशाः कियन्तश्च भवन्तीत्यत आह तपखिनो दानशीलाः कुलीनाः सत्यवादिनः । धर्मग्रधाना ऋजवः पुत्रवन्तो धनान्विताः ।। ६८ ।। 5यवराः साक्षिणो ज्ञेयाः श्रौतस्मार्तक्रियापराः । यथाजाति यथावर्ण सर्वे सर्वेषु वा स्मृताः ।। ६९ ॥ तपस्विनम्तपःशीलाः । दानशीला दाननिरताः । कुलीना महाकुलप्रसूताः । सत्यवादिनः सत्वदनशीलाः । धर्मप्रधाना नार्थकामश्रधानाः । ऋजवोऽकु टिलाः । पुत्रवन्तो विद्यमानपुत्राः । धनान्विता बहुसुवर्णादिधनयुक्ताः । श्रौतस्मार्तक्रियापरा: नित्यनैमित्तिकानुष्टानरताः । एवंभूताः पुरुषास्रयवराः साक्षिणो भवन्ति । त्रयः अवरा न्यूना येषां ते त्र्यवराः त्रिभ्योऽर्वाक न भवन्ति । पर [ व्यवहाराध्यायः २ सभ्चैश्चैव ग. ३ सत्यवादन ख. ४ ष्ठानपरा: ग