सामग्री पर जाएँ

पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/१८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५८ याज्ञवल्क्यस्मृतिः । [व्यवहाराध्यायः हिरण्यद्वैगुण्यवत्कालानादरेणेव स्त्रीपश्धाद्य प्रतिपादितवृहद्या दाप्याः । श्लोकस्तु व्याख्यात एव । यस्य द्रव्यस्य यावती वृद्धिः पराकाष्ठोक्ता तद्रव्यं प्रतिभूदत्तं खंदकेन तया वृद्धया सह कालविशेषमनपेक्ष्यैव सद्यो दातव्यमिति तात्पर्यार्थः । यदा तु दर्शनप्रतिभूः संप्रतिपन्ने काले अधमर्ण दर्शयितुमसमर्थ स्तदा तैद्भवेषणाय तस्य पक्षत्रयं दातव्यम् । तत्र यदि तं दर्शयति तदा भोक्त व्योऽन्यथा प्रस्तुतं धनं दाप्यः ।–“नष्टस्यान्वषणाथ तु दाप्य पक्षत्रय परम् । यद्यसैौ दर्शयेत्तत्र मोक्तव्यः प्रतिभूर्भवेत् ॥ काले व्यतीते प्रतिभूर्यदि तं नैव दर्शयेत् । निबन्धं दापयेत्तं तु प्रेते चैष विधिः स्मृत ॥’ इति कात्यायनवच नात् । लंझके विशेपनिषेधश्च तेनैवोक्तः–“न स्वामी न च वै शत्रुः स्वामिना धिकृतस्तथा । निरुद्धो दण्डितश्चैव संदिग्धश्चैव न कवित् ॥ नैव रिक्थी न मित्रं च न चैवात्यन्तवासिनः । राजकार्यनिर्युक्ताश्च ये च प्रव्रजिता नराः ॥ न शक्तो धनिने दातुं दण्डं राज्ञे च तत्समम् । जीवन्वापि पिता यस्य तथैवेच्छा प्रवर्तकः ॥ नाविज्ञातो ग्रहीतव्यः प्रतिभूः स्वक्रियां प्रति ।।' इति । संदिग्धो ऽभिशस्तः । अत्यन्तवासिनो नैष्ठिकब्रह्मचारिण ॥ इति प्रतिभूविधिः ॥ ५७ ॥ धनप्रयोगे वेिश्वासहेतू द्वेौ प्रतिभूराधिश्च । यथाह नारदः–‘विश्रम्भहेतू द्वावत्र प्रतिभूराधिरेव च' इति । तत्र प्रतिभूर्निरूपितः । इदानीमाधिर्निरूप्यते । आधिर्नाम गृहीतस्य द्रव्यस्योपरि विश्वासार्थमधमणेनोत्तमणोऽधिक्रियते आधी यत इत्याधि । सच द्विविधः कृतकालोऽकृतकालश्च । पुनश्चैकैकशो द्विविध गोप्यो भोग्यश्च । यथाह नारदः–अधिक्रियत इत्याधिः स विज्ञेयो द्विल क्षणः । कृतकालेऽपनेयश्च यावद्देयोद्यतस्तथा ॥ स पुनद्विविधः प्रोक्तो गोप्यो भोग्यस्तथैव च ॥’ इति । कृतकाले आधानकाल एवामुष्मिन्काले दीपोत्सवादी मयायमाधिमक्तव्योऽन्यथा तवैवाधिर्भविष्यतीत्येवं निश्चिते काले उपनेय आत्मसमीपं नेतव्यः । मोचनीय इत्यर्थः । देयं दानम् । देयमनतिक्रम्य यावद्देयम् । उद्यतः नियतः, स्थापित इत्यर्थः । यावद्देयमुद्यतो यावद्देयोद्यतः गृहीतधनप्रत्यर्पणा वधिरनिरूपितकाल इत्यर्थः । गोप्यो रक्षणीयः । एवं चतुर्विधस्याधेर्विशेषमाह-- आधिः प्रणश्येद्विगुणे धने यदि न मोक्ष्यते । काले कालकृतो नश्येत्फलभोग्यो न नश्यति ।। ५८ ।। प्रयुक्त धने स्वकृतया वृद्धया कालक्रमेण द्विगुणीभूते यद्याधिरधमणेन द्रव्य दानेन न मोक्ष्यते तदा नश्यति । अधमर्णस्य धर्न प्रयोचुः स्वं भवति । काल कृतः कृतकालः आहिताङ्कयादिषु पाठात्कालशब्दस्य पूर्वनिपातः । स तु काले निरूपिते प्रासे नश्येत् द्वैगुण्यात्प्रागूध्वं वा । फलभोग्यः फलं भोग्यं यस्यासौ फलभोग्यः क्षेत्रारमादिः स कदाचिदपि न नश्यति । कृतकालस्य गोप्यस्य १ खादकेनाधमर्णेन. २ तदन्वेषणाय ग . ३ मोक्तव्यो नान्यथा ग. ४ दापयेत्ततु प्रेते चैव ख. ५ लझकः प्रतिभूः. ६ प्रयुक्तास्तु घ. ७ विश्रम्भो विश्वासः. ८ निरूपिते ख. ग