पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/१८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋणादानप्रकरणम् ३ ] मिताक्षरासहेिता । १५७० भूषु सत्सु धनिकस्योत्तमर्णस्य यथारुचि यथाकामम् । अतश्च धनिको वित्ता चपेक्षायां स्वार्थ यं प्रार्थयते स एव कृत्स्त्रं दैाप्यो नाँशत । एकच्छायेंश्रितेषु यदि कश्चिद्देशान्तरं गतस्तत्पुत्रश्च संनिहितस्तदा धनिकेच्छया सर्व दाप्यः । मृते तु कस्मिंश्चित्तत्सुतः स्वपित्रैशमवृद्धिकं दाप्यः । यथाह कात्यायनः एकच्छायाप्रविष्टानां दाप्यो यस्तत्र दृश्यते । प्रोषिते तत्सुतः सर्व पित्रशं तु मृते समम् ॥’ इति ॥ ५५ ॥ प्रातिभाव्यर्णदानविधिमुक्त्वा प्रतिभूदत्तस्य प्रतिक्रियाविधिमाह प्रतिभूर्दापितो यतु प्रकाशं धनिनो धनम् । द्विगुणं प्रतिदातव्यमृणिकैस्तस्य तद्भवेत् ।। ५६ ।। यद्रव्यं प्रतिभूस्तत्पुत्रो वा धनिकेनोपपीडितः प्रकाशं सर्वजनसमक्षं राज्ञा धनिनो दापितो न पुनद्वैगुण्यलोभेन स्वयमुपैत्य दत्तम् । यथाह नारदः-'यं चार्थ प्रतिभूर्दद्याद्धनिकेनोपपीडितः । त्रैरणिकस्तं प्रतिभुवे द्विगुणं प्रतिपादयेत् ।।' इति । ऋणिकैरधमणैस्तस्य प्रतिभुवस्तद्रव्यं द्विगुणं प्रतिदातव्यं स्यात् । तच्च कालविशेषमनपेक्ष्य सद्य एव द्विगुणं दातव्यम् । वचनारम्भसामथ्यत् । एतच्च हिरण्यविषयम् ॥ ननु इंदं प्रतिभूरिति वचनं द्वैगुण्यमात्रं प्रतिपदयति तच्च पूर्वो क्तकालकल्पक्रमाबाधेनाप्युपपद्यते । यथा जातेष्टिविधानं शुचित्वाबाधेन । अपिच सद्यः सवृद्धिकदानपक्षे पशुस्त्रीणां सद्यः संतत्यभावान्मूल्यदानमेव प्रामोतीति । तदसत् -‘वस्त्रधान्यहिरण्यानां चतुस्त्रिद्विगुणा परा' इत्यनेनैव कालकल्पक्रमेण द्वैगुण्यादिसिद्धेः । द्वैगुण्यमात्रविधाने चेदं वचनमनर्थकं स्यात् । पशुरुस्त्रीणां तु कालक्रमपक्षेऽपि संतत्यभावे स्वरूपदानमेव । यदा प्रतिभूरपि द्रव्यदानानन्तरं कियतापि कालेनाधमणेन संघटते तदा *संततिरपि संभवत्येव । यद्वा पूर्वसिद्धसंतत्या सह पशुखियो दास्यन्तीति न किंचिदेतत् । अथ प्राति भाव्यं प्रीतिकृतम् । अतश्च प्रतिभुवा दत्तं प्रीतिदत्तमेव । नच प्रीतिदत्तस्य याच नात्प्राग्वृद्धिरस्ति । यथाह–“श्रीतिदत्तं तु यत्किंचिद्वर्धते न त्वयाचितम् । याच्यमानमदत्तं चेद्वर्धते'पञ्चकं शतम् ॥’ इति । अतश्चाप्रीतिदत्तस्यायाचितस्यापि दानदिवसादारभ्य यावद्विगुणं कालक्रमेण वृद्धिरित्यनेन वचनेनोच्यत इति । तदप्यसत् । अस्यार्थस्यास्माद्वचनादप्रतीतेद्विगुणं प्रतिदातव्यमेित्येतावदिह प्रतीयते । यस्मात्कालक्रममनपेक्ष्यैव द्विगुणं प्रतिदातव्यं वचनारम्भसामथ्र्यादिति प्रतिभूदत्तस्य सर्वत्र द्वैगुण्ये प्रासेऽपवादमाह-- संततिः स्त्रीपशुष्वेव धान्यं त्रिगुणमेव च । वस्त्रं चतुर्गुणं प्रोक्तं रसश्चाष्टगुणस्तथा ॥ ५७ ॥ १ वित्ताद्यपेक्षया घ . २ यः प्रार्थयते ख. ३ दद्यान्नांशतः ख. ४ तेष्वेकच्छाया ख ५ मृते सति घ. ६ धनिनां घ. ७ ऋणिकं तं ग. ८ प्रतिदापयेतत् ग. ९ इदं वचनं ग. घ १० नतु कालकलाक्रमादिकम्. ११ वस्रदान ख. १२. संततिरेवं ख. १३ प्रीतिकृतं च ख.