पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/१८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋणादानप्रकरणम् ३] मेिताक्षरासहिता । १५५ प्रतिभुवो भावः प्रतिभाव्यं । भ्रातृणां दम्पत्योः िपतापुत्रयोश्चाविभक्त द्रव्ये द्वव्यविभागात्प्राक्प्रातिभाव्यमृणं साक्ष्यं च न स्मृतं मन्वादिभिः । अपितु प्रतिषिद्धं, साधारणधनत्वात् । प्रातिभाव्यसाक्षित्वयोः पक्षे द्रव्यव्ययावसान त्वात्, ऋणस्य चावश्यप्रतिदेयत्वात् । एतच्च परस्परानुमतिव्यतिरेकेण, परस्प रानुमत्या त्वविभक्तानामपि प्रातिभाव्यादि भवत्येव । विभागादूध्र्व तु परस्परा नुमतिव्यतिरेकेणापि भवति । ननु दम्पत्योर्विभागात्प्राक्प्रातिभाव्यादिप्रतिषेधो न युज्यते । तयोर्विभागाभावेन विशेषणानर्थक्यात् । विभागाभावश्चाप स्तम्बेन दर्शितः–‘जायापत्योर्न विभागो विद्यत इति ' । सत्यम् । श्रौतस्मा तन्निसाध्येषु कर्मसु तत्फलेषु च वेिभागाभावो न पुनः सर्वकर्मसु द्रव्येषु वा । तथाहेि –‘जायापत्योर्न विभागो विद्यते’ इत्युक्त्वा किमिति न विद्यते इत्यपे क्षायां हेतुमुक्तवान्–“पाणिग्रहणाद्धि सहत्वं कर्मसु तथा पुण्यफलेषु च' इति । हि यस्मात्पाणिग्रहणादारभ्य कर्मसु सहत्वं श्रूयते —‘जायापती अग्मिादधीया ताम्’ इति । तस्मादाधाने सहाधिकारादाधानसिद्धान्निसाध्येषु कर्मसु सहाधि कारः । तथा ‘कर्म' स्मार्त विवाहाम्रौ' इत्यादिस्मरणाद्विवाहसिद्धाग्निसाध्येष्वपि कर्मसु सहाधिकार एव । अतश्चोभयविधाझिनिरपेक्षेषु कर्मसु पूर्तेषु जायापत्यो पृथगेवाधिकारः संपद्यते । तथा पुण्यानां फलेषु स्वर्गादिषु जायापत्यो सहत्वं श्रूयते—‘दिविज्योतिरजरमारभेताम्’ इत्यादि । येषु पुण्यकर्मसु सहा धिकारस्तेषां फलेषु सहत्वमिति बोद्धव्यं, न पुनः पूर्तानां भत्रैनुज्ञयानुष्ठि तानां फलेष्वपि ॥ ननु द्रव्यस्वामित्वेऽपि सहत्वमुक्तम्-‘द्रव्यपरिग्रहेषु च नहि भर्तुर्विप्रवासे नैमित्तिके दाने स्तेयमुपदिशन्ति’ इति । सत्यम् । द्रव्यस्वा मित्वं पत्या दर्शितमनेन न पुनर्विभागाभावः । यस्माद्रव्यपरिग्रहेषु चेत्युक्त्वा तत्र कारणमुक्तम्--'भर्तुर्विप्रवासे नैमित्तिकेऽवश्यकर्तव्ये दानेऽतिथिभोजनभि क्षाप्रदानादौ हि यस्मान्न स्तयमुपदिशन्ति मन्वाद्यस्तस्माद्भार्याया अपि द्रव्य स्वामित्वमस्ति अन्यथा स्तेयं स्यात्’ इति । तस्माद्धर्तुरिच्छया भार्याया अपि द्रव्यविभागो भवत्येव न स्वच्छया । यथा वक्ष्यति –*यांढे कुयोत्समानशान्पलय कार्याः समांशिकाः' इति ॥ ५२ अधुना प्रातिभाव्यं निरूपयितुमाह दर्शने प्रत्यये दाने प्रातिभाव्यं विधीयते । आद्यौ तु वितथे दाप्यावितरस्य सुता अपि ॥ ५३ ॥ प्रातिभाव्यं नाम विश्वासार्थ पुरुषान्तरेण सह समय । तच विषयभेदाञ्धिा भिद्यते । यथा-दशैने दर्शनापेक्षायाँ एर्न दर्शयिष्यामीति । प्रत्यये विश्वासे मत्प्रत्ययेनास्य धनं प्रयच्छ नायं त्वां वञ्चयिष्यते, यतोऽमुकस्य पुत्रोऽयं उर्वरा प्रायभूरस्य प्रामवैरो वास्तीति । दाने यद्ययं न ददाति तदानीमहमेव दास्या १ भार्यायामपि ख. २ प्रकृताध्यायस्य ११५ तमे पद्ये. ३ वरोऽस्तीति वा. घ