सामग्री पर जाएँ

पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/१६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३४
[ व्यवहाराध्यायः
याज्ञवल्क्यस्मृतिः ।

दिकमव्यभिचारादनुमापयन्त्यनुपपद्यमाना वा कल्पयन्तात्यनुमानऽथापत्ता चा न्तर्भवतीति प्रमाणमेव । एषां लिखितादीनां त्रयाणामन्यतमस्याप्यभावे व्यानां वक्ष्यमाणस्वरूपभेदानामन्यतमं जातिदेशकालद्रव्याद्यपेक्षया प्रमाणमु च्यते । मानुषाभाव एव दिव्यस्य प्रामाण्यमस्मादेव वचनादवगम्यते । दिव्यस्य स्वरूपप्रामाण्ययोरागमगम्यत्वात् । अतश्च यत्र परस्परविवादेन युगपद्धर्माधि कारिणं प्राप्सयोरेको मानुषीं क्रियामपरस्तु दैवीमवलम्बते तत्र मानुष्येव ग्राह्या । यथाह कात्यायनः–‘यद्येको मानुषीं बूयादन्यो बूयातु दैविकीम् । मानुषीं तत्र गृह्णीयान्नतु देवीं क्रियां नृप ॥’ इति । यत्रापि प्रैधानैकदेशसाधनं मानुषं संभवति तत्रापि न देवमाश्रयणीयम् । यथा रूपकशतमनया वृद्धया गृहीत्वायं न प्रयच्छतीत्यभियोगापह्नवे–ग्रहणे साक्षिणः सन्ति नो संख्यायां वृद्धिविशेषे वा, अतो दिव्येन भावयामीत्युक्त तत्रैकदेशविभावितन्यायेनापि संख्यावृद्धि विशेषसिद्धेर्न दिव्यस्यावकाशा । उक्तंच-कालयायनेन–‘यद्येकदेशव्यासापि क्रिया विद्येत मानुषी । सा ग्राह्या नतु पूर्णापि दैविकी वैदतां नृणाम् ।।' इति । यतु–‘गूढसाहसिकानां तु प्रासं दिव्यैः परीक्षणम्’ इति तदपि मानुषासंभ वकृतनियमार्थम् । यदपि नारदेनोक्तम्–“अरण्ये निर्जने रात्रावन्तर्वेश्मनि साहसे । न्यासस्यापह्नवे चैव दिव्या संभवति क्रिया ॥’ इति । तदपि मनुषासं भव एव । तस्मान्मानुषाभाव एव दिव्येन निर्णय इत्यौत्सर्गिकम् । अस्य चाप वादो दृश्यते--प्रक्रान्ते साहसे वादे पारुष्ये दण्डवाचिके । बलोद्भदूतेषु कार्येषु साक्षिणो दिव्यमेव चव ॥' इति । तथा लेख्यादीनामपि कचिन्नियमो दृश्यते । यथा–“गश्रेणीगणादीनां या स्थितिः परिकीर्तिता । तस्यास्तु साधनं लेख्यं न दिव्यं न च साक्षिणः ॥’ तथा-‘द्वारमार्गक्रियीभोगजलवाहादिषु क्रिया । भुक्ति ३रेव तु गुर्वी स्यान्न दिव्यं न चसाक्षिण ॥’ तथा–“दैत्तादत्तेऽथ भृत्यानां स्वामेिनां निर्णये सति । विक्रयादानसंबन्धे क्रीत्वा धनमनिच्छति ॥ यूते सैमाह्वये चैव विवादे समुपस्थिते । साक्षिणः साधनं प्रोक्तं न दिव्यं न च लेख्यकम् ॥’ इति ॥ २२ ॥   उभयत्र प्रमाणसद्भाचे प्रमाणगतबलाबलविवेके वासति पूर्वापरयोः कार्ययो कस्य बलीयस्त्वमित्यत आह--

सर्वेष्वर्थविवादेषु बलवत्युत्तरा क्रिया ।

ऋत्णादिषु सर्वेष्वर्थविवादेषु उत्तरा क्रिया क्रियत इति क्रिया कार्य बलवती ।


१ अनुमाने इति-क्षेत्रादिकमस्य क्रयादिप्राप्तम् आसेधरहितत्वेसति विरकालोपभुक्त त्वात् तदीयगृहादिवत् इत्यनुमानप्रयोगः. २ तादृशी भुक्तिः स्खतेोऽनुपपद्यमाना तादृशं तत्क ल्पयतीत्यर्थापत्तिबध्या. ३ अत्र समस्तस्य प्रधानैकदेश इति विग्रहः. ४ इति योऽभि योगस्तस्यापह्नवे परेण कृते सति. ५ संख्यावृद्धिविशेषयोः सिद्धेः. ६ पूर्वापि ग. ७ वदतां वादिनां. दैवी विवदतां ख. ८ मानुषसंभवकृतनियमाथैमिति पाठः. ९ पूगादीनां विवरणमग्रे ३० तमे पद्य स्फुटम्. १० आभोगः परिणाहः । तेन च परिणाहवदङ्गणादिकं लक्ष्यते. जलवाहो जलनिर्गममार्गः. ११ दतेति बहुवचनान्तयोर्द्धन्द्रः दत्तादत्तं विद्यते येषु दत्ताप्रदानिकाख्यविवादपदेषु १२ विक्रीयासंप्रदानाख्ये. १३ समाह्वयः प्राणिथूतम्, १४ वादिप्रतिवाद्यक्तयो