पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/१६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
असाधारणव्य ०मा०प्र०१ ]
१३३
मिताक्षरासहिता ।

गुरुम् । न हिंस्याब्राह्मणान्गाश्च सर्वाश्चैव तपस्विन इति ( ४॥१६२.) मनुवः चनाञ्च । आचार्यादीनामाततायिनां हिंसाप्रतिषेधेनेदं वचनमर्थवन्नान्यथा । हिंसामात्रप्रतिषेधस्य सामान्यशास्त्रेणैव सिद्धत्वात् नाततायिवधे दोषो ह न्तुर्भवति कश्चन' इत्येतदपि ब्राह्मणादिव्यतिरिक्तविषयमेव क्षेत्रदारहरश्चैव षडेते ह्याततायिन तथा उद्येतासिर्वेिषाझिश्च शापोद्यतकरस्तथा । अँथर्वणेन हन्ता च पिशुनश्चापि रा च रन्ध्रान्वेषणतत्पर एवमाद्यान्विजानीयात्सर्वाने ॥’ इति सामान्येनाततायिनो दर्शिता अतश्च ब्राह्मणादय आा ततायेिनश्च ात्मादित्राणार्थ हिंसानभिसंधिना निवार्यमाणाः प्रमादाद्यदि विपे धेरंस्तत्र लघुप्रायश्चित्तं राजदण्डाभावश्चेति निश्चयः । क्तव्यम् । उच्यते—‘हिरण्यभूमिलाभेभ्यो मित्रलब्धिर्वरा यत तत्प्रासा’ इत्यथशास्त्रम् धर्मशास्त्रानुसारेण क्रोधलोभविवर्जितः' इति धर्म शास्त्रम् । तयोः कविद्विषये विरोधो भवति यथा चतुष्पाद्यवहारे प्रवर्त माने एकस्य जयेऽवधार्यमाणे मित्रलब्धिर्भवति न धर्मशास्त्रमनुस्मृतं भवति । अन्यस्य जयेऽवधार्यमाणे धर्मशास्त्रमनुसृतं भवति मित्रलब्धिविपरीता । तत्रा र्थशास्राद्धर्मशास्त्रं बलवत धर्मार्थसंनिपाते अर्थग्राहिण एतदेव इति प्रायश्चित्तस्य गुरुत्वं दर्शितमापस्तम्बेन । एतदेवेति द्वादशवार्षिकं प्राय श्चित्तं परामृश्यते ॥ २१ ॥   ततोऽथ कथ लेखयेत्सद्यः प्रतिज्ञातार्थसाधनमित्युक्तं, किं तत्साधनमित्यपेक्षित आह -

{{Block center|

प्रमाणं लिखितं भुक्तिः साक्षिणश्चेतेि कीर्तितम् ।
एषामन्यतमाभावे दिच्यान्यतममुच्यते ॥ २२ ॥

  प्रमीयते परिच्छिद्यतेऽनेनेति प्रमाणम् तच्च द्विविधं मानुषं दैविकं चेति तत्र मानुषं त्रिविधं लिखितं भुक्तिः साक्षिणश्चेति । कीर्तितं महर्षिभिः । तत्र लेि खितं द्विविधं शासनं चीरकं चेति शासनमुक्तलक्षणम् । चीरकं तु वैक्ष्यमाण लक्षणम् । भुक्तिरुपभोग साक्षिणो वक्ष्यमाणस्वरूपप्रकारा ननु लिखितस्य साक्षिणां च शब्दाभिव्यक्तिद्वारेण शब्देऽन्तर्भावाद्युक्तं प्रामाण्यम् । भुत्तेस्तु

। उच्यते-भुक्तिरपि कैश्चिद्विशेषणैर्युक्ता स्वत्वहेतुभूतक्रिया


१ न हिंस्यादित्यादिवचनेनैवेत्यर्थ २ उद्यतेत्यत्र असिविषाझीनां द्वन्द्धं कृत्वोद्यतशब्देन बहुव्रीहिः. ३ अथर्ववेदप्रतिपादिताभिचारादिकर्मणा। ४ मृत्युमायुः. ५ अयमस्मिन्नेवाः ध्यायेऽष्टमश्चोके पूर्व दशितः. चतुर्धाव्य. घ. ६ भानवं ख. ७ व क्ष्यमाणमग्रे लेख्यप्रकरणे ८ स्वरूपं च प्रकारश्च वक्ष्यमाणैौ येषाम्. तत्र प्रकारो भेदः सच दृष्टसाक्षिणः श्रुतसाक्षिण इत्येवमादिः. ९ लिपेः स्फोटकव्यञ्जकत्ववत्साक्षिणां ध्वनिद्वारा तदभिव्यञ्जकत्वात्स्वरूपत स्तेषामतत्वेऽपि तत्वातत्वमिति भावः. १० आसेधरहितत्वादिविशेषणैः।