त्यभियोगरूपं तथापि स्वापराधपरिहाररात्मकत्वान्नास्य प्रतिषेधविषयत्वम् ।
अतः स्वाभियोगानुपमर्दनरूपस्य प्रत्यभियोगास्यायं निषेधः । इदं प्रत्यर्थिनमधि
कृत्योक्तम् --
अथ अर्थिनं प्रत्याह --
अभियुक्तं च नान्येन नोक्तं विप्रकृतिं नयेत् ॥ ९ ॥ |
अभियुक्तं च नान्येनेति । अन्येनाभियुक्तमनिस्तीर्णाभियोगमन्योऽर्थी नाभिः योजयेत् । किंच । उक्तभावेदनसमये यदुक्तं तद्विप्रकृतिं विरुद्धभावं न नयेन्न प्रापयेत् । एतदुतं भवति-यद्वस्तु येन रूपेणावेदनसमये निवेदितं तद्वस्तु तथैव भाषाकालेऽपि लेखनीयं नान्यथेति । ननु–‘प्रत्यर्थिनोऽग्रतो लेख्यं य थाचेदितमर्थिना' इत्यत्रैवेदमुक्तं किमर्थ पुनरुच्यते नोक्तं विप्रकृतिं नयेदिति । उच्यते—‘यथाऽऽवेदितमर्थिना’ इत्यनेनाऽऽवेदनसमये यद्वस्तु निवेदितं तदेव भाषासमयेऽपि तथैव लेखनीयम् । ऐएकस्मिन्नपि पैदे न वस्त्वन्तरमित्युक्तम् । यथा नेन रूपकशतं वृद्धया गृहीतमित्यावेदनसमये प्रतिपाद्य प्रत्यर्थिसंनिधौ भाषा समये वस्रशतं वृद्धया गृहीतमिति न वक्तव्यम् । तथा सति पदान्तरागमनेऽपि वस्त्वन्तरगमनाद्धीनवादी दण्ड्यः स्यादिति । नोक्तं विप्रकृतेिं नयेदित्यनेनैकव स्तुत्वेऽपि पदान्तरगमनं निषिद्धच्यते । यथा रूपकशतं वृद्धया गृहीत्वाऽयं न प्रय च्छतीत्यावेदनकालेऽभिधाय भाषाकाले रूपकशतं बलादपहृतवानिति वद तीति । तत्र वस्त्वन्तरगमनं निषिद्धमिह तु पदान्तरगमर्न निषिद्धयत इति न पैौनरुक्त्यम् । एतदेव स्पष्टीकृतं नारदेन –“पूर्वपादं परित्यज्य योऽन्यमाल म्बते पुनः । पैदसंक्रमणाज्ज्ञेयो हीनवादी स वै नरः ।।' इति । हीनवादी दण्डयो भवति न प्रकृतादर्थाद्धीयते । अतः प्रत्यर्थिनोऽर्थिनश्च प्रमादपरिहारा र्थमेवायमभियोगमनिस्तीर्येत्याद्युपदेशो न प्रकृतार्थसिद्वैयसिद्धिविषयः । अत एव वक्ष्यति-“छलं निरस्य भूतेन व्यवहारान्नयेनृपः' इति । एतचार्थव्यव हारे द्रष्टव्यम् । भैन्युकृते तु व्यवहारे प्रमादाभिधाने प्रकृतादपि व्यवहाराद्धी यत एव । यथाह नारदः-‘सर्वेष्वर्थविवादेषु वाक्छले नावसीदति । परस्त्री भूम्यूणादाने शास्योऽप्यर्थान्न हीयते ॥’ इति । अस्यार्थः-सर्वेष्वर्थविवादेषु न मन्युकृतेषु वाक्छले प्रसादाभिधानेऽपि नावसीदति न पराजीयते । न प्रकृता थर्थाद्धीयत इत्यर्थ । अत्रोदाहरणं परस्रीत्यादि । परस्त्रीभूम्यूणादाने प्रमादाभि धानेन दण्ड्योऽपि यथा प्रकृतादर्थान्न हीयते एवं सर्वेष्वर्थविवादेष्विति । अर्थ
विवादग्रहणान्मन्युकृतविवादेषु प्रमादाभिधाने प्रकृतादप्यर्थाद्धीयत इति गा .
१ तथैवेति । अन्यथाऽन्यथावादित्वेन भङ्गप्रसङ्गात्. २ ऋणादानादिव्यवहारविषये ३ अत्र प्रकरणे पदशब्दो विषयवाची. ४ विषयान्तरं प्रत्यगमनेऽपीत्यर्थः. ५ पदान्तरं प्रति गमनाद्वस्त्वन्तरगमनाचेत्य थैः. ६ सिच्यसिद्धीति । हीनवादित्वे प्रकृतार्थासिद्धिस्तथात्वे तत्सिद्धिरित्यर्थ . ७ पूर्वभूतेन सलेयन व्यवहारण. ८ हान्नवादा दण्डय एव, न प्रकृता र्थाद्धीयत इत्येतत्. ९ मन्युकृते वाक्पारुष्यदण्डपारुष्यादिव्यवहारे. १० एवं शाब्दमाः द्यार्थमुक्त्वा द्वितीयमसंप्रदध्वनितमाह अर्थेति