तु प्रत्यर्थ निर्दिशेत्क्रियाम् । मिथ्योक्तौ पूर्ववादी तु प्रतिपत्तौ न सा
भवेत् ॥’ इति ॥ ७ ॥
ततः किमित्यत आह --
तत्सिद्धौ सिद्धिमाझेोति विपरीतमतोऽन्यथा । |
तस्य साधनस्य प्रमाणस्य वक्ष्यमाणलिखितसाक्ष्यादिलक्षणस्य सिद्धो निवृत्ती
सिद्धिं साध्यस्य जयलक्षणां प्राोति । अतोऽस्मात्प्रकारादन्यथा प्रकारान्तरेण
साधनासिद्धेो विपरीतं साध्यस्यासिद्धिं पराजयलक्षणमाप्तोतीति संबन्धः ॥
एवं व्यवहाररूपमभिधायोपसंहरति --
चतुष्पाद्यवहारोऽयं विवादेष्पदर्शितः ।। ८ ।। |
व्यवहारानृपः पश्येदित्युक्तो व्यवहारः सोऽयभित्थं चतुप्पाच्चतुरंशकल्पनया विवादेपु ऋणादानादिपूपदर्शितो वर्णितः । तत्र प्रत्यर्थिनोऽग्रतो लेख्यं इति भाषापादः प्रथमः । श्रुतार्थस्योत्तरं लेख्यमित्युत्स्पादो द्वितीयः । ततोऽर्थी लेखयेत्सद्य इति क्रियापादस्तृतीयः । तत्सिद्धे सिद्धिमाझोतीति साध्यसि द्धिपादश्चतुर्थः । यथोक्तम्--'परस्परं मनुष्याणां स्वार्थविग्रनिपतिपु । वाक्यन्या याद्धद्यवस्थानं व्यवहार उदाहृतः ॥ भापोत्तरक्रियासाध्यसिद्धिभिः क्रमवृत्तिभि । आक्षिप्तचतुरंशस्तु चतुप्पादभिधीयते ।।' इति । संप्रतिपत्युत्तरे तु साधनानिर्देशा द्वाषार्थस्यासाध्यत्वाच्च न साध्यसिद्विलक्षणः पादोऽस्तीति द्विपात्रवमेव । उत्तरा भिधानानन्तरं सभ्यानामर्थिप्रत्यर्थिनोः कस्य क्रिया स्यादिति परामर्शलक्षणस्य प्रत्येकलितस्य योगीश्वरेण व्यवहारपादत्वेनानभिधानाद् व्यवहर्तुः संबन्धाभा वाञ्च न व्यवहारपादत्वमिति स्थितम् ॥ ८ ॥
इति साधारणव्यवहारमातृकाप्रकरणम् ।
असाधारणव्यवहारमातृकाप्रवर्करणम् २
एवं सर्वव्यवहारोपयोगिनीं व्यवहारमातृकामभिधायाधुना कचिब्द्यवहारविशेषे कंचिद्विशेषं दर्शयितुमाह --
अभियोगमनिस्तीर्य नैनं प्रत्यभियोजयेत् ।
औभियुज्यत इति अभियोगोऽपराधः तमभियोगमनिस्तीर्यापरिहृत्य एनमभि
योक्तारं न प्रत्यभियोजयेत् अपराधेन न संयोजयेत् । यद्यपि । शैत्यवस्कन्दनं प्र
१ ततः साधनलेखनोत्तरम्. २ मुख्यपादत्वासंभवादाह चतुरंशेति. ३ अभिधीयते ऋणादानादिषु वक्ष्यमाणेषु. ४ लक्षणोपि इति पाठः. ५ प्रत्याकलितस्य पौनःपुन्येन विचारणस्येत्यर्थः. ६ अभियुज्यते दोषविषयीक्रियतेऽनेनेति शेषः. ७ सत्यं गृहीतं प्रति दत्तं चेति कारणोत्तरस्य अनेन दत्तं स्थितं मया पुनर्दत्तमित्येवं प्रत्यभियोगरूपत्वमित्यर्थः.