पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/१४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११४
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः

सभ्यांसश्चाह -

श्रुताध्ययनसंपन्ना धर्मज्ञाः सत्यवादिनः ।
राज्ञा सभासदः कार्या रिपौ मित्रे च ये समाः ॥ २ ॥

  किंच श्रुताध्ययनसंपन्नाः श्रुतेन मीमांसाव्याकरणादिश्रवणेन अध्ययनेन च वेदाध्ययनेन संपन्नाः । धर्मज्ञाः धर्मशास्त्रज्ञाः । सत्यवादिनः सत्यवचनशीला रिपौ मित्रे च ये समाः रागद्वेषादिरहिता । एवंभूताः सभासदः सभायां संसदि यथा सीदन्त्युपविशन्ति तथा दानमानसत्कारे राज्ञा कर्तव्याः । यद्यपि श्रुताध्ययनसंपन्ना इत्यविशेषेणोक्तं तथापि ब्राह्मणा एव । यथाह कात्यायनः ‘स तु सभ्यैः स्थिरैर्युक्तः प्राशैमौलेद्विजोत्तमै । धर्मशास्त्रार्थकुशलेरर्थशास्रवेि शारदैः ॥' इति । ते च त्रयः कर्तव्याः बहुवचनस्यार्थवत्वात् –“यस्मिन्देशे निषीदन्ति विप्रा वेदवेिदस्रयः' इति (८1१ १ ) मनुस्मरणाच्च । बृहस्पतिस्तु सप्त पञ्च त्रयो वा सभासदो भवन्तीत्याह -‘लोकवेदज्ञधर्मज्ञाः सप्त पञ्च त्रयो ऽपि वा । यत्रोपविष्टा विप्राः स्युः सा यज्ञसदृशी सभा ॥' इति । नच ब्राह्मणैः सहेति पूर्वश्लोकोक्तानां ब्राह्मणानां श्रुताध्ययनसंपन्नाः इत्यादि विशेषणमिति मन्तव्यम् । तृतीयाप्रथमान्तनिर्दिष्टानां विशेषणविशेष्यभावासंभवात् । विद्व द्भिरित्यनेन पुनरुक्तिप्रसङ्गाच्च । तथाच कालयायनेन ब्राह्मणानां सभासदां च स्पष्टं भेदो दर्शितः–‘सप्राङ्गिवाकः सामात्यः सब्राह्मणपुरोहितः । ससभ्यः प्रेक्षको राजा स्वर्गे तिष्ठति धर्मतः ॥' इति । तत्र ब्राह्मणा अनियुक्ताः सभास दस्तु नियुक्ता इति भेदः । अतएवोक्तम्--'नियुक्तो वाऽनियुक्तो वा धर्मज्ञो वत्कुमर्हति' इति । तत्र नियुक्तानां यथावस्थितार्थकथनेऽपि यदि राजाऽन्यथा करोति तदाऽसौ निवारणीयोऽन्यथा दोष । उक्तंच कात्यायनेन–‘अन्याये नापि तं यान्तं येऽनुयान्ति सभासदः । तेऽपि तद्भागिनस्तस्माद्वोधनीयः स तैनृपः ॥’ इति । अनियुक्तानां पुनरन्यथाभिधानेऽनभिधाने वा दोपो नतु राज्ञो ऽनिवारणे–“संभा वा न प्रवेष्टव्या वक्तव्यं वा समञ्जसम् । अबुवन्विबुवन्वापि नरो भवति किल्बिषी ॥' इति (८॥१३) मनुस्मरणात् । रिपौ मित्रे चेति चकाराछोकरञ्जनार्थ कतिपयैर्वणिग्भिरप्यधिष्ठितं सदः कर्तव्यम् । यथाह का त्यायनः–“कुलशीलवयोवृत्तवित्तवद्भिरमत्सरेः । वाणिग्भिः स्यात्कतिपयैः कुल भूतैरधिष्ठितम् ॥' इति ॥ २ ॥
  व्यवहाराष्ट्रपः पश्येदित्युक्तं तत्रानुकल्पमाह -

अपश्यता कायवशाद्वयवहारानृपण तु ।
सभ्यैः सह नियोक्तव्यो ब्राह्मणः सर्वधर्मवित् ॥ ३ ॥


१ मौलैः सेवकत्वेन पितृपितामहादिपरम्परायातैः. २ च भेदः स्पष्टो ग. ३ सभां वा न प्रवेष्टव्यं ग