सामग्री पर जाएँ

पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९८
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः

  अपरुषः परदोषाकीर्तन:। धार्मिको वर्णाश्रमधर्मान्वित:। न विद्यन्ते व्यसनानि यस्यासावव्यसनः । व्यसनानि चाष्टादश । यथाह मनुः (७।४७-४८)-र्मृग- याऽक्षो दिवास्वप्तः परिवादः स्त्रियो मदः । तौर्यत्रिकं वृथाव्या च कामजो द शको गणः ॥ पैशुन्यं साहसं द्रोह ईप्यसूयार्थदूषणम् । वाग्दण्डज च पारुष्य क्रोधजोऽपि गणोऽष्टकः ।।' इति । तत्र च सप्त कष्टतमानि । मनुः यथाह मनुः (७॥५०-५१)–“पानमक्षाः स्त्रियश्चैव मृगया च यथाक्रमम् । पुतत्कटतमं वेि द्याच्चतुष्कं कामजे गणे दण्डस्य पातनं चैव वाक्पारुष्यार्थदृपणे । क्रोधजेऽपि गणे विद्यात्कष्टमेतत्रिकं सदा ॥' इति । प्राज्ञो गाम्भीरार्थावधारणक्षमः । शूरो निर्भयः । रहस्यवित् गोपनीयार्थगोपनचतुरः । स्वरन्ध्रगोप्ता स्वस्य सप्तसु राज्या ङ्गेषु यत्परप्रवेशद्वारशैथिल्यं तत्स्वरन्ध्र तस्य गोप्ता प्रच्छादयिता । आन्वीक्षि क्यामात्मविद्यायां, दण्डनीत्यामर्थयोगक्षेमोपयोगिन्यां, वातयां कृषिवाणिज्य पशुपालनरूपायां धनोपचयहेतुभूतायां, त्रय्यां ऋग्यजुःसामाख्यायां च विनीत स्तत्तदभिशैः प्रावीण्यं नीतः । यथाह मनुः (७॥४३)-त्रैविद्येभ्यस्रयीं विद्यां दण्डनीतिं च शाश्वतीम् । आन्वीक्षिकीं चात्मविश्द्यो वार्तारम्भांश्च लोकतः ॥ इति । नराधिपो राज्याभिषिक्तः स्यादिति सर्वत्र संबन्ध ॥ ३०९ ॥ ३१०॥३११ ॥
एवमभिषेकयुक्तस्यान्तरङ्गान्धर्मानभिधायेदानीं बहिरङ्गानाह-

स मत्रिणः प्रकुर्वीत प्राज्ञान्मौलान्स्थिराञ्शुचीन् ।
तैः सार्ध चिन्तयेद्राज्यं विप्रेणाथ तैतः खयम् ।। ३१२ ।।

महोत्साहादिगुणैर्युक्तो राजा मत्रिणः कुर्वीत । कथंभूतान् । प्राज्ञान्हिताहित विवेककुशलान् । मौलान्स्ववंशपरम्परायातान् । स्थिरान्महत्यपि हर्षविषाद स्थाने विकाररहितान् । शुचीन्धर्मार्थकामभयोपधाशुद्धान् । तेच सप्ताष्टौ वा कार्याः । यथाह मनुः (७॥५४)-‘मैौलाँव्शास्रविदः शूरान्लब्धलक्षान्कुलोद्भ वान् । सचिवान्सप्त चाष्टौ वा कुर्वीत सुपरीक्षितान् ॥’ इति । एवं मत्रिणः पूर्व कृत्वा तैः सार्ध राज्यं संधिविग्रहादिलक्षणं कार्य चिन्तयेत् समस्तेव्यैतैश्च । अन न्तरं तेषामभिप्रायं ज्ञात्वा सकलशास्त्रार्थविचारकुशलेन ब्राह्मणेन पुरोहितेन सह

कार्य विचिन्त्य ततः स्वयं बुद्धचा कायै विन्तयेत् ॥ ३१२ ॥


१ आखेटकाख्यो मृगवधो मृगया, अक्षादिक्रीडा, दिवानिद्रा, परदोषकथनं, स्त्रीसं भोगः, मद्यपानजनितो मदः, नृत्यगीतवादित्राणि त्रीणि, वृथाभ्रमणं, इति दश. २ पैशु न्यमविशातदोषाविष्करणं, साहसं साधेोर्बन्धनादिनिग्रहः, द्रोहश्छद्मवध , ईष्यन्थगुणासहि ष्णुता, असूया परगुणेषु दोषाविष्करणं, अर्थदूषणमर्थानामपहरणं देयानामदानं च, वाक्पारुष्यमाक्रोशादि, दण्डपारुष्यं ताडनादि, इत्यष्टौ. ३ साममय्यां ख. ४ च तद्विद ख. ५ ततः परम् ख. ६ हर्षविकारस्थाने विषादरहितान् क. ७ मौलान्पितृपितामहः क्रमेण सेवकान्, ८ लब्धलक्षान् लक्ष्यादप्रच्युतशरादीन्.