पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/१२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९०
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः

अथ ग्रहृशान्तिप्रकरणम् १२

‘ग्रहाँश्चैव विधानतः । कर्मणां फलमाझोति श्रियं चाशोत्यनुत्तमाम्' इत्यनेन ग्रहपूजया कर्मणामवित्रेन फलसिद्धिः श्रीश्च फलमित्युक्तम् । इदानीं फलान्तराण्याह--

श्रीकामः शान्तिकामो वा ग्रहयज्ञ समाचरेत् ।
वृष्टयायुःपुष्टिकामो वा तथैवाऽभिचरन्नपि ।। २९५ ।।

श्रीकाम इति पूर्वोक्तस्यानुवादः । शान्तिकाम आपदुपशान्तिकामः । सस्या दिवृद्धयर्थ प्रवर्षणं वृष्टिः आयुरपमृत्युजयेन दीर्धकालजीवनम् । पुष्टिरनवद्यश रीरत्वं एताः कामयत इति वृष्टवायुःपुष्टिकामः । एते श्रीकामादयो ग्रहयज्ञ ग्रहपूजां समाचरेयुः । तथाभिचरन्नपि अदृष्टोपायेन परपीडा अभिचारस्तत्कामश्च ग्रहानाह--

सूर्यः सोमो महीपुत्रः सोमपुत्रो बृहस्पतिः ।
शुक्रः शनैश्चरो राहुः केतुश्चेतेि ग्रहाः स्मृताः ।। २९६ ।।

एते सूर्यादयो नवग्रहा ॥ २९६ ॥
ग्रहाः पूज्या इत्युक्तं, किं कृत्वेत्याह--

ताम्रकात्स्फटिकाद्रक्तचन्दनात्स्वर्णकादुभौ ।
राजतादयसः सीसात्कांस्यात्कायां ग्रहाः क्रमात् ।। २९७ ।।

खवणैर्वा पटे लेख्या गन्धैर्मण्डलकेषु वा । सूर्यादीनां मूर्तयस्ताम्रादिभिर्यथाक्रमं कार्या । तदलाभे स्वणैर्वर्णकैः पटे लेख्याः । गन्धैर्मण्डलकेपु वा । गान्धेः रक्तचन्दनादिभिर्यथावर्ण लेख्या इत्य न्वयः । द्विभुजत्वादिविशेषस्तु मत्स्यपुराणोक्तो द्रष्टव्य । यथा–“पद्मासन पद्मकरः पद्मगर्भसमद्युतिः । संसाश्वरथसंस्थश्च द्विभुजः स्यात्सदा रविः ॥ श्वतः श्रेताम्बरधरो दशाश्वः श्वतभूषणः । गदापाणिद्विबाहुश्च कर्तव्यो वरदः शशी ॥ रक्तमाल्याम्बरधरः शक्तिशशूलगदाधरः । चतुभुजो मेषगमो वरदः स्याद्धरासुतः । पीतमाल्याम्बरधरः कर्णिकारसमद्युतिः । खङ्गचर्मगदापाणिः सिंहस्थो वरदो बुधः ॥ देवदैत्यगुरू तद्वत्पीतश्धतौ चतुर्भुजौ । दण्डिनौ वरदै कार्यो साक्षसूत्र कमण्डल ॥ इन्द्रनीलद्युतिः शूली वरदो गृध्रवाहनः । बाणबाणासनधरः कर्त योऽर्कसुतः सदा ॥ करालवदनः खङ्गचर्मश्शूली वरप्रदः । नीलेः सिंहासनस्थश्च राहुरत्र प्रशस्यते ॥ धूम्रा द्विबाहवः सर्वे गदिनो विकृताननाः । गृध्रासनगता


१ सप्ताश्धः सप्तरजुश्च. क. २ नीलसिंहासनः. क. ग.