पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/१०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७८
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः

मुखान्पितृनिर्माँल्लोकान्प्रीणयाहि नः स्वाहा' इति यवावपनम् । विश्वेदेवा इदं वो ऽध्र्य, नान्दीमुखाः पितर इदं वोऽध्यैमिति यथालिङ्गमध्यैदानम् । पाणैो होमोऽझये कव्यवाहनाय स्वाहा सोमाय पितृमते स्वाहेति । ‘मधुवाता ऋतायत' इति तृच स्थाने ‘उपास्मै गायत’ इति पञ्च मधुमतीः श्रावयेत् । ‘अक्षन्नमीमदन्त' इति षष्टीम् । आचान्तेषु भुक्ताशयान्गोमयेनोपलिप्य प्राचीनाग्रान्दर्भन्संस्तीर्य तेपु पृष दाज्यमिश्रेण भुक्तशेषेणैकैकस्य द्वौद्वैौ पिण्डैौ दद्यादित्यादि । यद्यपि पितृन्यजेतेति सामान्येनोक्तं तथापि श्राद्धत्रयं क्रमश्च स्मृत्यन्तरादवगन्तव्य । यथाह शाता तपः–‘मातुः श्राद्धं तु पूर्व स्यात्पितृणां तदनन्तरम् । ततो मातानहानां च वृद्धौ श्राद्धत्रयं स्मृतम् ।।' इति ॥ २५० ॥
एकोद्विष्टमाह--

एकोद्दिष्टं देवहीनमेकाध्यैकपवित्रकम् ।
आवाहनामौकरणरहितं ह्यपसव्यवत् ।। २५१ ।।

एकोद्दिष्टं एक उद्दिष्टो यस्मिन् श्राद्धे तदेकोद्दिष्टमिति कर्मनामधेयम् । शेषं पूर्ववदाचरेदित्युपसंहारात् । पार्वणसकलधर्मप्राप्तौ विशेपोऽभिधीयते । देवहीनं विश्वेदेवरहितं एकाध्यैपात्रमेकदर्भपचित्रकं च आवाहनेनाग्नाकरणहोमेन च रहि तम् । अपसव्यवत् प्राचीनावीतब्रह्मसूत्रवत् । अनेनानन्तरोक्ताभ्युदयिके यज्ञोप वीतित्वं सूचयति ॥ २५१ ॥

उपतिष्ठतामक्षय्यस्थाने विप्रविसर्जने ।
अभिरम्यतामिति वदेद्भयुस्तेऽभिरताः स ह ।। २५२ ।।

किंच । यदुक्त-“स्वस्तिवाच्यं ततः कुर्यादक्षयोदकमेव च' इति तत्राक्षय्य स्थाने उपतिष्ठतामिति वदेत् । विप्रविसर्जने कर्तव्ये ‘वाजेवाजे’ इति जपान्ते दर्भ न्वारम्भेणाभिरम्यतामिति ब्रूयात् । ते चाभिरताःस्म इति ब्रूयुः । ह प्रसिद्धम् शेषं पूर्ववदिति यावत् । एतच्च मध्याहे कर्तव्यम् । यथाह देवलः–“पूर्वाहे दैविकं कर्म अपराहे तु पैतृकम् । एकोद्दिष्टं तु मध्याहे प्रातद्धिनिमित्तकम् ।' इति । भुञ्जीत पितृसेवितमित्ययैकोद्दिष्टविशेषे निषेधो दृश्यते–“नवश्राद्धेषु यच्छिष्टं गृहे पर्युषितं च यत् । दंपत्योर्मुक्तशिष्टं च न भुञ्जीत कदाचन ॥’ इति । नवश्राद्धं च दशि तम्—‘प्रथमेऽह्नि तृतीयेऽह्नि पञ्चमे सप्तमे तथा । नवमैकादशे चैव तन्नवश्राद्ध मुच्यते ।।' इति ॥ २५२ ॥
सपिण्डीकरणमाह--

गन्धोदकतिलैर्युक्त कुर्यात्पात्रचतुष्टयम् ।
अध्यार्थ पितृपात्रेषु प्रेतपात्रं प्रैसेचयेत् ।। २५३ ।।


१ दैवहीनं क. २ प्रसिञ्चयेत् ख