पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/१०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७६
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः

अक्षयोदकदानम्--

मातामहानामप्येवं दद्यादाचमनं ततः ।
खतिवाच्यं ततः कुर्यादक्षय्योदकमेव च ।। २४३ ।।

मातामहानामपि विश्वेदेवावाहनादिपिण्डप्रदानपर्यन्तं कर्मेवमेव कर्तव्यम् । अन न्तरं ब्राह्मणानामाचमनं दद्यात् । स्वस्तिवाच्यं तत कुर्यात् स्वस्ति बूतेति ब्राह्मणा न्स्वस्ति वाचयेत् । तैश्च स्वस्तीत्युक्त अक्षयमस्त्विति बूतेति ब्राह्मणहस्तपूदकदार्न कुर्यात् । तैश्चाक्षयमस्त्विति वक्तव्यम् ॥ २४३ ॥
स्वधावाचनम्--

दत्त्वा तु दक्षिणां शक्तया स्वधाकारमुदाहरेत् ।
वाच्यतामित्यनुज्ञातः प्रकृतेभ्यः स्खधीच्यताम् ।। २४४ ।।

अनन्तरं यथाशक्ति हिरण्यरजतादिदक्षिणां दत्त्वा स्वधां वाचयेिप्य इत्युक्त्वा तेब्रह्मणैर्वाच्यतामेित्यनुज्ञातः प्रकृतेभ्यः पित्रादिभ्यो मातामहादिभ्यश्च स्वधोच्यता मिति स्वधाकारमुदाहरेत् ॥ २४४ ॥

ब्रूयुरस्तु खधेत्युत्ते भूमौ सिञ्चेत्ततो जलम् ।
विश्वेदेवाश्च श्रीयन्तां विप्रैश्चोक्त इदं जपेत् ।। २४५ ।।

ते च ब्राह्मणा अस्तु स्वधेति ब्रूयुः । तेरेवमुक्त अनन्तरं कमण्डलुना उदकं भूमेा सिद्धेत । ततो विश्वेदेवाः प्रीयन्तामिति ब्रूयात् । ब्राह्मणैश्च प्रीयन्तां विश्वेदेवा इत्युक्त इदमनन्तरोच्यमानं जपेत् ॥ २४५ ॥

दातारो नोऽभिवर्धन्तां वेदाः संततिरेव च ।
श्रद्धा च नो माव्यगमद्धहुदेयं च नोऽस्त्विति ।। २४६ ।।

दातारो हिरण्यादेः नोऽस्माकं कुलेऽभिवर्धन्तां बहवो भवन्तु । वेदाश्च वर्धन्तां अध्ययनाध्यापनतदर्थज्ञानानुष्ठानद्वारेण । संततिश्च पुत्रपौत्रादिपरम्परया । श्रद्धा च. पित्र्ये कर्मण्यास्था नोऽस्माकं माव्यगमत् मा गच्छतु । ‘न माङ्योगे' इत्यडभावः। देयं च हिरण्यादि बहु अपर्यन्तं अस्माकं भवत्विति जपेदित्यर्थः ॥ २४६ ॥

इत्युक्त्वोक्त्वा ग्रिया वाचः प्रणिपत्य विसर्जयेत् ।
वाजेवाज इति श्रीतः पितृपूर्वे विसर्जनम् ।। २४७ ।।

एवं पूर्वोत्तं प्रार्थनाम जस्वा, उक्त्वा च प्रिया वाचवः धन्या वयं भवञ्चरण युगलरजःपवित्रीकृतमस्मन्मन्दिरं शाकाद्यशनछेशमविगणय्य भवद्भिरनुगृहीता वयमेित्येवंरूपाः । प्रणिपत्य प्रदक्षिणापूर्वं नमस्कृत्य विसर्जयेत् । कथं विसर्जयेदि-


१ कमैवं कर्तव्यं ग. २ रेव नः ग. ३ विसर्जयेत् ख