त्येतत्रिकं तथा ॥’ इति पारस्करादिवचनात् । भुञ्जीरंस्तऽपि वाग्यताः । तेऽपि ब्राह्मणा वाग्यता मौनेिनो भुञ्जीरन् ॥ २३९ ॥
अन्नमिष्टं हविष्यं च दद्यादक्रोधनोऽत्वरः ।
आतृझेस्तु पवित्राणि जस्वा पूर्वजपं तथा ।। २४० ।।
अन्न भक्ष्यभोज्यलेह्यचोष्यपेयात्मकं पञ्चविधं इटं यब्राह्मणाय प्रेताय कत्रं वा रोचते । हविष्यं श्राद्धहविर्योग्यं व्रीहिशालियवगोधूममुद्रमाषमुन्यन्नकालशाकम हाशल्कैलाशुण्ठीमरीचहिङ्गुगुडशर्कराकरसैन्धवसांभरपनसनालिकेरकदलीबदरग व्यपयोदधिघृतपायसमधुमांसप्रभृति स्मृत्यन्तरप्रसिद्धं वेदितव्यम् । हविष्यमित्य नेनैवायोग्यस्य स्मृत्यन्तरप्रतिषिद्धस्य कोद्भवमसूरचणककुलित्थपुलाकनिष्पावराज माषकूष्माण्डवार्ताकबृहतीद्वयोपोदकीवंशाङ्करपिप्पलीवचाशतपुष्पोषेधबिडलवण माहिषचामरक्षीरदधिघृतपायसादीनां निवृत्तिः । अक्रोधनः क्रोधहेतुसंभवेऽपि । अत्वरोऽव्यग्रः । आतृसेर्दद्यादिति संबन्धः । तुशब्दाद्यथा किंचिदुच्छिष्यते तथा दद्यात् । उच्छेषणस्य दासवर्गभागधेयत्वात् ।–“उच्छेषणं भूमिगतमजिह्मस्याश ठस्य च । दासवर्गस्य तत्पित्र्ये भागधेयं प्रचक्षते ॥’ इति (३॥२४६) मनुस्मर णात् । तथा आतृतेः पवित्राणि पुरुषसूक्तपावमानीप्रभृतीनि जत्वा तृप्तान् ज्ञात्वा पूर्वोक्तं जपं च सव्याहृतिकामित्युक्तं जपेत् ॥ २४० ॥
अन्नमादाय तृप्ताः स्थ शेषं चववानुमान्य च ।
तदनं विकिरेन्दूमौ दद्याचापः सकृत्सकृत् ।। २४१ ।।
अनन्तरं सर्वन्निमादाय तृप्ताः स्थेति तान्पृष्टा तृप्ताः स्म इति तैरुक्तः शेषम प्यस्ति किं क्रियतामिति पृष्टा इटैः सहोपभुज्यतामित्यभ्युपगम्य तद्द्रं पितृस्थान ब्राह्मणस्य पुरस्तादुच्छिष्टसंनिधौ दक्षिणाप्रदर्भान्तरितायां भूमौ तिलोदकप्रक्षेपपू र्वकं—‘ये अग्दिग्धा' इत्यनयची निक्षिप्य पुनतिलोदकं निक्षिपेत् । तदनन्तरं ब्राह्मणहस्तपु गण्डूषार्थ सकृत्सकृदपो दद्यात् ॥ २४१ ॥
सर्वमन्नमुपादाय सतिलं दक्षिणामुखः ।
उच्छिष्टसंनिधौ पिण्डान्दद्याद्वै पितृयज्ञवत् ।। २४२ ।।
पिण्डपितृयज्ञकल्पातिदेशेन चरुश्रपणसद्भावे अझैौकरणशिष्टचरुशेषेण सह सर्व मन्नमुपादायान्निसंनिधौ पिण्डान्दद्यात् । तदभावे ब्राह्मणार्थ तमन्ने सर्वमुपादाय सतिलं तिलमिश्र दक्षिणामुख उच्छिष्टसंनिधौ पिण्डपितृयज्ञकल्पेन पिण्डान्दद्यात् ॥ २४२ ॥
१ वृन्ताकबृहती क. २ पुष्पोपघिबिड-क. पुष्पोषरविड-ख. ३ प्रक्रिरेत् क. ४ सार्व वर्णिकमन्न-क. ग. ५ सार्ववर्णिकमन्नमुपादाय क