पृष्ठम्:यतिराजविजयम्.pdf/8

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रव रंतु श्रीमते वेङ्कटेशाय नमः प्रस्तावन आकिं भुवन यग्य वाविक वैदवाड़मयम् । दशरूपधरं देवं श्रीनिर्धि तमुपामहे । शिरसि विदासस्य हेयप्रत्यनीकासंख्याककल्याणगुणगणाकरम्य परस्य ब्रह्मणः पुरुषोत्तमस्य श्रीनिवासस्य परमतत्त्वप्रकाशकं वेदान्तविलासापरनामधेयं मृदुमधुरमञ्जुलं यतिराजविजयनाटकमिदं-श्रीमत् श्रीवेङ्कटेश्वरप्राच्यविद्यापरिशोधनालयग्रथितायां श्री श्रीवैष्णवसम्प्रदायग्रन्थमालायां सप्तमं प्रसूनम् | ललिनोचितसन्निवेशरम्यया काव्यसरण्या, तत्रापि, आबालसुलभया दृश्यरूपक पद्धया च महाप्राज्ञानामपि दुरूहान् श्रुतिशुद्धान्तरहस्यभूतान् वेदान्तसिद्धान्तान् परमपामराणामपि करतलमलकयति नाटकमिदमिनि महदिर्द प्रमोदस्थानम्। धर्मप्रबोधने नाटकानां स्थानम् विदितचरमेव हीद सर्वेषामपि विपश्चिदपश्चिमानां यत् शब्दप्रधानेभ्य: प्रभुसमितेभ्यो वेदेभ्यः, अर्थप्रधानेभ्यो मित्रसमितेभ्यश्च पुराणेभ्य , ललितलुलितया विलासप्रक्रियया सर्वेषामपि प्राणिनां निसर्गसम्यचि मनांसि रञ्जयन्ती व्यङ्गयप्रधाना कान्तासमिता च काव्यश्रीः - कर्तव्येषु सल्यु कर्येषु प्रवर्तयति, निवर्तयति च अकर्तव्येभ्योऽसत्कर्येभ्यः सर्वानपि जनानिति । तत्रापि पण्डितास्वादनैकविषयेभ्यः श्रव्य चारुतमानि । अत एव ** काव्येषु नाटकं रम्यम् ', 'नाटकान्तं कवित्वम्' इत्यादयो महतां श्रीसूकयो बहयो विराजन्ते। वेद-स्मृति - पुराण-इतिहासादिक्वि भारतीयेषु कायनाटकदिश्वपि धर्मप्रबोधनमेव प्रधान कृत्यम् । तथासति सुभगरमणीयया सरण्या आध्यामिकपरम