पृष्ठम्:यतिराजविजयम्.pdf/124

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Y9ረ यतिराजविजयमू-नाटकम् यति -(विहस्य) लेकस्त्वेतन्न जानाति । केवले गतानुगतिक एवान्धकूपे निपतति। सुतर्क-(विमृश्य) हा कष्टं किमनेन चेष्ठितमभूदात्मदृहामप्रणीः किं वा बुद्धसबुद्धिमानपि वृथाचारो विचारोजिझतः । सर्वज्ञोऽपि शताध्वरोऽपि कुहनाशास्त्रान्धकूपे नरान्' अन्धानेवमहो! नेिपात्य नरकावतें न वर्तत क:? । यति -कस्त'न्न जानाति । सर्वोऽपि स्वधीसामथ्यैमेव दर्शयति । एवमनात्मज्ञैरन्यैश्च मन्त्रिभिरेकशरीरयोरपि महाराजवेदविचारयोस्न्योन्यविरोध उत्पादित: ; तत्प्रशमनाय वेदविचारमानेतुं पञ्चमी वेदः पुराणसहितः प्रहितः ; तन्मया महाराजसमीपे स्थातव्यम्; तद्भवता यामुनादीन् पुरस्कृत्य माधवोत्सवः कार्यः || (इति निष्क्रान्तौ) ( इति विष्कम्भः) (ततः प्रविशति सुनीतिसहितो राजा, परिजनपरिच्छन्ना देवी, यतिराजश् ) यति -(शुभनिमित्त वीक्ष्य, दक्षिणतो दशैयन् सहर्षम्) शुकासितभरद्वाजहारीतास्सत्पथे स्थिताः । कृष्णपक्षाः कृतालाप'द्विजा मे दर्शनप्रियाः ॥ राजा---( विमृश्य, स्मितं कृत्वा ) महर्षिप्रियमेव यतिराजदर्शनम् । सुनी -सम्यगुक्तं देवेन । वेदेष्वर्थनिधानानि दृश्यन्ते न हि सन्त्यपि । तत्र यद्येन दृश्येत ततु तस्यैव दर्शनम् ॥ 1. जनान -पा० 2. GETFlf. -Hl. 8. कृतोद्योगाः-पl०