पृष्ठम्:यतिराजविजयम्.pdf/106

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमोऽङ्कः ( ततः प्रविशति सुदर्शनः ) सुद - ( विमृश्य ) यतिराजप्रेषितेन मया 'पथिकमुखान्मायावादवृतान्तो विदितः। यथा किल-गायवाद. शंकरं पुरस्कृत्य केलेस्संभूय संकटस्थाने दुर्गामध्य तःप्रसादलब्धविविधमायायुक्तिशक्तिविभवी रामानुजविजयाय मेघनाद इव प्रस्थितः । तत्सार्थमुदातावपि वृद्धी ध्याननियोगवादी निष्प्रपंचीकरणनियोगवादी च शंकरद्वेषानिवृत्तौ । वाक्यार्थज्ञानवादिनैौ च शंकरशिप्र्यौ जीवबहुत्वैकवे प्रति परस्परं कलहायमानी क गतावित न ज्ञायत इति । तदिमं व्रतान्ते गुरवे निवेदयामि । ( इति निष्क्रान्तः वेिष्कंभः ) ( ततः प्रविशति संक्रुद्धः सन्यासी शुक्लपटश्च ) सन्या -भो भी दुरात्मन् ! शकरश्रीपादशिष्योऽपि किमेतां यज्ञोपवीतवत् कण्ठ ग्राहिणीं भेदवासनापिशाचीं च न मुंचसेि, ? शुक्ल - सरोषम) अनात्मज्ञ ! प्रच्छन्नबैद्धसन्यासिन्! मर्मर्श मामपि किं प्रकोपयसि ? नमालेकरणन्यायेन अवैदिक ते दर्शनम् । निर्वाणनिष्ठ प्रतिनियतबधमीक्षादिवादिभिर्भदवाक्यैरलकर्त काशकुशमवलम्ब्य जीवभेद परिकल्पयामि । तदपि न मृष्यसि ? सन्या -(सक्रोधं दन्तान् संपीड्य) कर्थ मृप्यामि दुतर्कवादिनस्ते पाण्डित्यमू 'तहिं बूहि ब्रह्मण्येकपलीव्रर्त धारयन्त्यविद्या, कति कति वा जीक्चण्डालान् अलिंगति ? 1. पथिकवेषेण -पा० 2. वेदवाक्यैः -पा० 3. तावत्-पa