सामग्री पर जाएँ

पृष्ठम्:मेघसन्देशः - दक्षिणावर्तनाथः - १९१९.djvu/26

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

मुखे लम्बमानशरीरस्त्वं तस्य मुखावगुण्ठनप्रीतिं जनयेरित्यर्थः । कल्पद्रुमकिसलयानि कल्पद्रुमकिसलयभूतानि । नानाचेष्टैः, नानाविधा चेष्टा येषाम् । ललितैर्लीलायुतैः । निर्बिशेः अनुभव । इदमत्रानुसन्धेयं – कश्चित् सखा स्वप्रियसखस्य गृहं गत्वा तदीयानि वापी वाहनारामादीनि स्वैरं निर्विशतीर्यर्थो ध्वन्यते इति ॥ ६२॥

तस्योत्सङ्गे प्रणयिन इव स्रस्तगङ्गादुकूलां

न त्वं दृष्ट्वा न पुनरलकां ज्ञास्यसे कामचारिन !।
या वः काले वहति सलिलोद्गारमुच्चैर्विमानै-

र्मुक्ताजालग्रथितमलकं कामिनीवाभ्रबृन्दम्॥६३॥

तस्येति । उत्सङ्गे उपरितले अङ्के च । प्रणयिनो भर्त्तुः । प्रणयिन उत्सङ्गे कामिनीमिति वक्तव्ये कामिनीशब्दानुपादानमुत्तरार्धे वक्ष्यमाणत्वात् । स्रस्तगङ्गादुकूलां, ‘दुकूलं शुक्लवस्रेऽपी’ति यादवः । इदमुभयत्र योज्यम् । न त्वं दृष्ट्वा न पुनरलकां ज्ञास्यस इति, पूर्वमेवालकाज्ञानं मेधस्यास्तीति सूचयितुं नञ्दूयं प्रयुक्तम् । कामचारिन् !, अनेन सर्वचारित्वं कामुकत्वं च विवक्षितम् । वः काल इति । वः त्वादृशानां मेघानां काले वर्षाकाल इत्यर्थः । सलिलोद्गारं, सलिलमुद्गिरतीति सलिलोद्गारः । ‘कर्मण्यण्’ (३.२.१) इत्यण्प्रत्ययः । उच्चैरुत्तुङ्गैर्विमानैः । सप्तभूमिकं भवनं विमानम् ।

"विमानोऽस्त्री देवयाने सप्तभूमे च सद्मनि"

इति यादवः । मुक्ताजालग्रथितं मौक्तिकगुणाबद्धम् । अत्रेदमनुसन्धेयं – प्रोषिता उदात्ताः पुरुषाः[] वर्षाकाले समागत्य विगतमाना भूत्वा स्त्रीणां कपोललम्बानलकान् मुक्ताजालैरुद्गृह्य बध्नन्तीत्यर्थो विवक्षितः । उत्तरार्धेनाप्यलकाया ज्ञानोपाय उक्तः ॥ ६३॥

पूर्वसन्देशः समाप्तः ।

–-

अथ उत्तरसन्देशः

४३



अतः परं च सप्तसु श्लोकेषु ययाकयाचन विघया मेघसम्बन्धमुक्त्वा अलकां वर्णयति –

विद्युन्वन्तं ललितवनिताः सेन्द्रचापं सचित्राः

सङ्गीतार्थप्रहतमुरवाः स्निग्धगम्भीरघोषम् ।
अन्तस्तोयं मणिमयभुवस्तुङ्गमभ्रंलिहाग्राः

प्रासादास्त्वां तुलयितुमलं यत्र तैस्तैर्विशेषैः॥१॥

विद्युत्वन्तमिति । सचित्रा आलेख्यसहिताः । सङ्गीतार्थप्रहतमुखा इति पाठः । नृत्तवाद्यगीतानां त्रयं सङ्गीतम् । अर्थशब्दो हेतुवचनः । सङ्गीतार्थाः प्रहता मुरवा येषाम् । स्निग्धपर्जन्यघोषं, पर्जन्योऽभ्रध्वनितम् ।

"पर्जन्यो गर्जदभ्रेऽभ्रध्वाने शक्रेऽस्त्रयन्त्रके"[]

इति यादवः । स्तिग्धगर्जितघोषमित्यर्थः । अत्र मेघगर्जितवाचिनः पर्जन्यशब्दस्य प्रयोगेणैव सिद्धेऽप्यर्थे घोषशब्दप्रयोगः ‘केकारवैर्बर्हिण’ इत्यत्र केकारववत् सोढव्यः । अभ्रंलिहाग्राः, ‘वहाभ्रे लिहः’ (३.२.३२) इति खश् । तुलयितुं तुलां कर्तुम् । तुलाशब्दः सदृशवाचकोऽप्यस्ति । त्वां सदृशीकर्तुमित्यर्थः । ननु ‘तुल उन्मान’ इत्ययं धातुश्चौरादिकः तुलेति कथं व्युत्पन्नः णिचोऽनित्यत्वात् तुलेत्यपि भवति । अलं पर्याप्तम् [] । तैस्तैर्विशेषैः तै लितवनितादिभिर्विशेषैः । पूर्वोक्तानां विशेषाणां समासवृत्तितिरोहितत्वात् स्पष्टार्थं तैस्तैर्बिशेषैरित्युक्तम् । अत्र मेघसंबन्धः स्पष्टः ॥१॥

हस्ते लीलाकमलमलके बालकुन्दानुवेधो

नीता लोध्रप्रसवरजसा पाण्डुतामानने श्रीः ।
चूडापाशे नवकुरवकं चारु कर्णे शिरीषं
सीमन्ते च त्वदुपगमजं यत्र नीपं वधूनाम् ॥

  1. १. 'षाः का' क. पाठः.
  2. 'न्त्रिते इ'
  3. २. 'प्तैः' क. पाठः.