पृष्ठम्:मेघसन्देशः - दक्षिणावर्तनाथः - १९१९.djvu/25

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

तप्रस्थसन्धेः दशमुखभुजोद्धारणाद् दलितसानुसन्धेः । त्रिदशवनितादर्पणस्य । ननु इदं विशेषणमयुक्तं मेघवातस्पर्शाद् दर्पणस्यान्धीभावात् । उक्तं च--

''मत्तः सदाचारशुचेः कलङ्कं पयोदवातादिव दर्पणस्य''

इति । अस्य परिहारः – कैलासस्य महत्तया मालिन्यं न संभवतीति । महत्तामेव दर्शयति – श्रृङ्गोच्छ्रायैरिति । वितत्य विस्तीर्य । यावदाकाशं वितत्येत्यर्थः । अट्टहासो महाहासः । ‘अट्टहासो महाहास’ इति यादवः ॥५८॥

उत्पश्यामि त्वयि तटगते स्निग्धभिन्नाञ्जनाभे

सद्यःकृत्तद्विरदरदनच्छेदगौरस्य तस्य ।
शोभामद्रेः स्तिमितनयनप्रेक्षणीयां भवित्री-
मंसन्यस्ते सति हलभृतो मेचके वाससीव॥५९॥

उत्पश्यामीति । स्निग्धभिन्नाञ्जनाभे भन्नस्निग्घाञ्जनशिलासन्निभे । स्तिमितनयनप्रेक्षणीयामिति उत्पश्यामीत्यनेन संबन्धः । हलभृतो नीलाम्बरस्य । अस्यापि सद्यः कृत्तद्विरदरदनच्छेदगौरस्येत्यादि योज्यम् । मेचके नीले ।

"कृष्णे नीलासितश्यामकालश्यामलमेचकाः"

इत्मरः ॥५९॥

हित्वा तस्मिन् भुजगवलयं शम्भुना दत्तहस्ता

क्रीडाशैले यदि च विहरेत् पादचारेण गौरी ।
भङ्गी भक्त्या विरचितवपुः स्तम्भितान्तर्जलौघः

सोपानं कुरु मणितटारोहणायाग्रयायी॥६०॥

हित्वेति । भुजगवलयोत्सारणं देव्यास्रासाभावाय । यदि चेति चकारस्य त्वमित्यनेन संबन्धः । विहरेत् क्रीडेत् परिक्रामोदिति वा । भङ्गी भङ्गवान् । ‘भङ्गो विभङ्गः शकलः’ इति केशवः । उक्तंच ‘शिलाविभङ्गैरि’ति । भक्त्या ईश्वरभक्तया । प्रागप्युक्तं ‘भक्तिनम्रः परीया’ –-

पूर्वसन्देशः

४१


इति । विरचितवपुः । विच्छिद्य विच्छिद्य रचनं विरचनं सोपानमित्यर्थः[१] । मणितटारोहणाय [२] । मणिग्रहणं मेघस्य नीलवर्णत्वात् तटसोपानयोरेकवर्णत्वं सूचयितुं कृतम् । गौरी क्रीडाशैले पादचारेण यदि विहरेत्, त्वं च भक्त्या भङ्गीभूत्वा विरचितवपुः मणितटारोहणाय सोपानं कुर्वीत्यर्थः ॥६०॥

तत्रावश्यं वलयकुलिशोद्धट्टनोद्गीर्णतोयं

नेष्यन्ति त्वां सुरयुवतयो यन्त्रधारागृहत्वम् ।
ताभ्यो मोक्षस्तव यदि सखे ! घर्मलब्धस्य न स्यात्

क्रीडालोलाः श्रवणपरुषैर्गर्जितैर्भाययेस्ताः॥६१॥

तत्रेति । वलयकुलिशोद्धट्टनोद्गीर्णतोयं वलयमेव कुलिशं वलयकुलिशं तेन वलयकुलिशेन ऊर्ध्वप्रोतत्वं वलयकुलिशोद्धट्टनम् । कुलिशग्रहणेनोद्धट्टनसाधनत्वमुक्तम् । यन्त्रधारागृहत्वं कृत्रिमधारागृहत्वम् । धर्मलब्धस्य धर्मकाललब्धस्य । ननु वर्षाकालो वर्तते । कथं धर्मकाललाभः । देवभूमित्वात् कैलासे षडृतवः सर्वदा वर्तन्त्ते । वक्ष्यति च – ‘हस्ते लीलाकमलम्’ इति । अथवा धर्मशब्देन श्रमो विवक्षितः । फ्रीडाश्रमसमये लब्धस्येत्यर्थः । भाययेर्भयं जनयेः ॥६१॥

हेमाम्भोजप्रसवि सलिलं मानसस्याददानः

कुर्वन् कामात् क्षणमुखपटप्रीतिमैरावतस्य ।
धुन्वन् कल्पद्रुमकिसलयान्यंशुकानीव वातै-

र्नानाचेष्टैर्जलद ! ललितैर्निर्विशेस्तं नगेन्द्रम्॥६२॥

डेमेति । प्रसवो जननं पुष्पं वा, तदस्यास्तीति प्रसवि ।

''प्रसवो जननानुज्ञापुत्रेषु फलपुष्पयोः ''

इति यादवः । कामाद् यथेष्टम् । इदं सर्वशेषम् । क्षणमुखपटप्रीतिं, क्षणग्रहणं सलिलादानमुहूर्तविवक्षायाम् । मुखपटप्रीतिं मुखावगुण्ठनपटप्रीतिम् । ऐरावतस्य मानसावगाहिनः । उन्मज्जत ऐरावतस्य

  1. १. 'न कुरु । म'
  2. १. 'य । सोपानं कु' क. पाठः