पृष्ठम्:मेघसन्देशः - दक्षिणावर्तनाथः - १९१९.djvu/21

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

आराध्येति । सिद्धद्वन्द्वैः, स्कन्दमुपर्वाणयितुमागच्छाद्भिरिति भावः । वीणिभिर्वीणावद्भिः । व्रीह्यादित्वादिनिः ।

"व्रीहिः शिखाष्टका माला पताका वर्मकर्मणी ।
मेखला बडबा वीणा संज्ञा चर्म वलाकया"

इति व्रीह्यादिगणः । जलसिक्ततन्त्रीका वीणा न क्वणतीति सिद्धानां मेघमार्गपरित्यागः । वक्ष्यमाणार्थपरिज्ञानायात्रेदमनुसन्धेयं – दशपुराख्यस्य पुरस्याधिपतिः पुण्यश्लोकः कश्चन रन्तिदेव इति राजा बभूव । तदीयानां धेनूनां मध्ये प्रतिदिनं काञ्चनखुरश्रृङ्गाद्यवयवैः सञ्चरमाणाः काश्चन देवगव्यः समवतीर्य स्वैरं विहृत्य गच्छन्ति । तासां रुपं दृष्ट्वा रन्तिदेवधेनवः पप्रच्छुः कुतो युष्माकमीदृशं रूपं सञ्जातमिति । ताः पुनरब्रुवन् पुरा यज्ञेषु संज्ञपिता वयमीदृश्यो जाता इति । ताश्च धेनवः स्वामिनं रन्तिदेवमुपगम्याब्रुवन् – हे राजन् ! एतावन्तं कालं भवतो वयमुपकृतवत्यः । तस्मादस्मान् क्रतुषु त्वमालभेयाः, येन दिव्यरुपा भवामेति । सोऽपि ता यज्ञेषु विशस्य तासां चर्माणि पर्वतमिव क्वापि संबभार । तस्मात् सरक्तनिःष्यन्दाच्चर्मपर्वतात् कापि नदी प्रवहति, यां चर्मप्रभवत्वाच्चर्मण्वतीमाहुरिति भारतीयमुपाख्यानं हृदये कृत्वा तां नदीं तस्य किर्तित्वेन वर्णयन्नाह- व्यालम्बेथा इति । व्यालम्बेथाः विनम्य प्राप्नुहि । सुरभितनयालम्भजां, सुरभितनया धेनवः तासामालम्भो विशसनम् । स्रोतोमूर्त्या चर्मण्वतीजलमूर्त्या ॥४५॥

मया तस्याः का माननेत्यपेक्षायामाह‌--

त्वय्यादातुं जलमवनते शार्ङ्गिणो वर्णचोरे
तस्याः सिन्धोः पृथुमपि तनुं दूरभावात प्रवाहम् ।
प्रेक्षिष्यन्ते गगनगतयो नूनमावर्ज्य दृष्टी-
रेकं मुक्तागुणमिव भुवः स्थूलमध्येन्द्रनीलम॥४६॥

त्वयीति । पृथुमपि तनुं पृथुमपि दूरभावात् तनुं प्रवाहमित्यन्वयः । गगनगतयः खेचराः सिद्धादयः । एकं मुक्तागुणमिति, एकशब्द एकावलीसमाधिना प्रोक्तः ॥४६॥ –-

पूर्वसन्देशः

३३



तामुत्तीर्य व्रज परिचितभ्रूलताविभ्रमाणां
पक्ष्मोत्क्षेपादुपरिविलसत्कृष्णशारप्रभाणाम
कुन्दक्षेपानुगमधुकरश्रीमुषामात्मबिम्बं
पात्रीकुर्वन् दशपुरवधूनेत्रकौतूहलानाम॥ ४७ ॥

तामिति । उपरिविलसत्कृष्णशारप्रभाणां ‘कृष्णरक्तसितः शारः’ इति यादवप्रकाशेन शारशब्दो वर्णत्रयसाङ्कर्यवाचको यद्यपि अत्र पृथगेव कृष्णशब्दोपादानात् शारशब्दः सितरक्तवर्णयोः साङ्कर्ये सङ्कुचितवृत्तिः । तथा श्रीरामायणप्रयोगश्च विद्यते – ‘कृष्णशारे विलोचने’ इति । सप्तशत्यां च – ‘एको वि काळसारो ण देइ’ इति । कुन्दक्षेपानुगमधुकरश्रीमुषाम् । कुन्दस्य क्षेपो वायुना प्रेरणम् । मधुकरश्रीर्मधुकरशोभा । रक्तकुसुमोदरेषु मधुपानार्थं प्रवेशान्मधुकराणां तत्परागपाटलत्वं च स्वभावतो नीलत्वं च विद्यत इत्यनुसन्धेयम् । आत्मबिम्बं स्वशरीरमण्डलम् ।

"बिम्बोस्त्री मण्डलसमप्रतिमामुखलक्ष्मसु।
प्रतिबिम्बे तत्प्रकृतौ"

इति यादवः । दशपुरवधूनेत्रकौतूहलानाम् । वधूः स्त्री । नेत्राणां कौतूहलादागतानि उन्मेषणादीनि नेत्रकौतूहलानि । तस्मान्नेत्रकौतूहलानां नेत्रोन्मेषणादीनां परिचितभ्रूलताविभ्रमत्वमुपरिविलसत्कृष्णशारप्रभत्वं च संभवति ॥४७॥

ब्रह्मावर्तं जनपदमथच्छायया गाहमानः
क्षेत्रं क्षत्रप्रधनपिशुनं कौरवं तद् भजेथाः
राजन्यानां शितशरशतैर्यत्र गाण्डीवधन्वा
धारापातैस्त्वमिव कमलान्यभ्यवर्षन्मुखानि॥४८॥

ब्रह्मेति । ब्रह्मावर्त इति मध्यदेशे पुण्यः कोऽपि जनपदः । अत्र मनुः –

"सरस्वतीदृषद्वत्योर्देवनद्योर्यदन्तरम् ।
तं देवनिर्मितं देशं ब्रह्मावर्तं प्रचक्षते ॥"