पृष्ठम्:मेघसन्देशः - दक्षिणावर्तनाथः - १९१९.djvu/20

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
प्रस्थानं ते कथमपि सखे लम्बमानस्य भावि
ज्ञातास्वादो विवृतजघनां को विहातुं समर्थः॥
तस्या इति । मुक्तरोधोनितम्बं मुक्तरोधः कटीप्रदेशः । "नितम्बः पश्चिमे श्रोणिभागे च कटके कटौ"

इति यादवः । ज्ञातास्वादः ज्ञातस्त्रीसंभोगरसः । विवृतजघनां विवृतकटिप्रदेशाम् ।

"जघनं स्यात् कटौ पूर्वश्रोणिभागापराङ्गयोः"

इति यादवः ॥ ४१ ॥

त्वन्निष्यन्दोच्छ्वसितवसुधागन्धसम्पर्करम्यः

स्रोतोरन्ध्रध्वनितसुभगं दन्तिभिः पीयमानः
नीचैर्वास्यत्युपजिगमिषोर्देवपूर्वं गिरिं ते

शीतो वायुः परिणमयिता काननोदुम्बराणाम्॥४२॥

त्वन्निःष्यन्दोच्छ्वसितवसुधागन्धसम्पर्करम्यः त्वदीयनवजलबृंहितवसुधागन्धसम्पर्करम्यः । अनेन वायोर्गन्ध(व) त्वमुक्तम् । स्रोतोरन्ध्रध्वनितसुभगं, स्रोतसां रन्ध्रं स्रोतोरन्ध्रमिति जलप्रणालोविवक्षितः । स्रोतोरन्ध्रसंमूर्छज्जलध्वनितसुभगमित्यर्थः । दन्तिभिः सरन्ध्रेण करेण पीयमानो वायुः जलप्रणालनिस्सरत्प्रवाह इव शब्दायत इत्यर्थः । अनेन मान्द्यमुक्तम् । नीचैः । अधस्ताद् दन्तिभिः पीयमानत्वान्मन्दवेगस्तव नीचैरेव वास्यति । तेन दीर्घाध्वगामिनस्ते वायुप्रेरणया श्रान्तिर्न भविष्यतीत्यभिप्रायः । देवपूर्वं देवशब्दपूर्वगिरिं गिरिशब्दम् । एतौ देवगिरिशब्दौ स्वरूपेण मेघानभिगम्यत्वाद् मेघाभिगम्यं स्वसमुदायवाच्यं देवगिरिं लक्षयत इत्यनुसन्धेयम् । काननोदुम्बराणाम् उदुम्बरफलानाम् । कृद्योगे षष्ठी ॥४२॥

तत्र स्कन्दं नियतवसतिं पुष्पमेघीकृतात्मा
पुष्पासारैः स्नपयतु भवान व्योमगङ्गाजलार्द्रैः ।



पूर्वसन्देशः ।

१३

रक्षाहेतोर्नवशशिभृता वासवीनां चमूना-
मत्यादित्यं हुतवहमुखे संभृतं तद्धि तेजः॥४३॥

तत्रेति । तत्र देवगिरौ नियतवसतिम् । पुरा किल देवार्थमसुरान् निहत्य तत्र विश्रान्तः स्कन्दो देवैर्याचितः सन् तत्रैव मद्दर्शनायागताभ्यां शिवाभ्यां सह नित्यं वसामीति प्रतिज्ञातवान् । तस्मात् तत्र स्कन्दस्य नियतवसतित्वमुक्तमित्यैतिह्यमनुसन्धेयम् । पुष्पमेधीकृतात्मा, कामरूपत्वादेतन्मेघस्य संभवति । उक्तमैतिह्यं किञ्चिद् विवृणोति – रक्षाहेतोरिति । इयं ‘षष्ठी हेतुप्रयोगे’ (२.३.२६) इति षष्ठी । अत्यादित्यमतिक्रान्तादित्यम् । हुतवहमुखे संभृतं तद्धि तेज इति स्कन्दस्याग्निमुखोत्पत्तेरुक्तम् ॥४३॥

ज्योतिर्लेखावलयि गलितं यस्य बर्हं भवानी

पुत्रप्रेम्णा कुवलयदलक्षेपि कर्णे करोति
धौतापाङ्गं हरशशिरुचा पावकेस्तं मयूरं

पश्चादद्रिग्रहणगुरुभिर्गर्जितैर्नर्तयेथाः॥४४॥

ज्योतिरिति । कुवलयदलक्षेपीति पाठः । कुवलयदलनिन्दकमित्यर्थः । धौतापाङ्गं शोधितापाङ्गम् । शोधनं च धवलापाङ्गोज्ज्वलीकरणम् । अनेन नर्तकस्य मुखमण्डनसमाधिश्च प्रतीयते । पावकेः स्कन्दस्य । अनेन हुतवहमुखे संभृतं तद्धि तेज इत्यस्य विवरणं कृतम् । पश्चात् पुष्पस्नपनात् पश्चात् ।अद्रिग्रहणगुरुभिः, अद्रिग्रहणं गुहाग्रहणम् । नर्तयेथाः, तदाराधनं नृत्तमत्र विवक्षितं, तदभिषेकस्योक्तत्वाद्, आराध्यैनमिति वक्ष्यमाणत्वाच्च । अनेन श्लोकेन शिवयोः सन्निधानमुक्तमित्यनुसन्धेयम् ॥४४॥

आराध्यैनं शरवणभवं देवमुल्लङ्घिताध्वा

सिद्धद्वन्द्वैर्जलकणभयाद् वीणिभिर्मुक्तमार्गः ।
व्यालम्बेथाः सुरभितनयालम्भजां मानयिष्यन्

स्रोतोमूर्त्या भुवि परिणतां रन्तिदेवस्य कीर्तिम्॥४५॥