शोणिते” इति विश्वः मे दृष्टिरालुप्यते । आव्रियत इत्यर्थः ततो दृष्टिप्रतिबन्धनाल्लेखन प्रतिबध्यत इति भावः । किंबहुना क्रूरो घातुकः "नृशंसो घातुकः क्रूरः” इत्यमरः ॥ कृतान्तो दैवम् ॥ कृतान्तो यमसिद्धान्तदैवाकुशलकर्मसु” इत्यमरः ॥ तस्मिन्नपि चित्रेऽपि ॥ नावावयोः ॥ युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वानावौ” इति नावादेशः । सङ्गमं सहवासं न सहते । सङ्गगमलेखनमप्यावयोरसहमानं दैवमावयोः सङ्गं न सहत इति किमु वक्तव्यमित्यपिशब्दार्थः ।
अधुना स्वप्नदर्शनमाह
मामाकाशप्रणिहितिभुजं निर्दयाश्लेषहेतो-
र्लब्धायास्ते कथमपि मया स्वप्नसन्दर्शनेषु ।
पश्यन्तीनां न खलु बहुशो न स्थलीदेवतानां
मुक्तास्थूलास्तरुकिसलयेष्वश्रुलेशाः पतन्ति ॥४३॥
मामिति ।। सुप्तस्य विज्ञानं स्वप्नः ॥ ‘स्वप्नः सुप्तस्य विज्ञानम्" इति विश्वः ॥ सन्दर्शनं संवित् । “दर्शनं समये शास्त्रे दृष्टौ स्वप्नेऽक्ष्णि संविदि ॥” इति शब्दार्णवे ॥ स्वप्नसन्दर्शनानि स्वप्नज्ञानानि ॥ चूतवृक्षादिवत्सामान्यविशेषभावेन सहप्रयोगः ॥ तेषु मया कथमिति महता प्रयत्नेन लब्धाया गृहीतायाः । दृष्टाया इति यावत् ।। ते तव निर्दयाश्लेषो गाढालिङ्गनं स एव हेतुस्तस्य । निर्दयाश्लेषार्थमित्यर्थः ॥ “षष्ठीहेतुप्रयोगे" इति षष्ठी ॥ आकाशे निर्विषये प्रणिहितभुजं प्रसारितबाहुं मां पश्यन्तीनां स्थलीदेवतानां मुक्ता मौक्तिकानीव स्थूला अश्रुलेशा बाप्पबिन्दवस्तरुकिसलयेषु अनेन चेलाञ्चलेनाश्रुधारणसमाधिर्ध्वन्यते । बहुशो न पतन्तीति न किन्तु पतन्त्येवेत्यर्थः ॥ निश्चये नञ्द्वयप्रयोगः । तथा चाधिकारसूत्रम्-"स्मृतिनिश्चयसिद्धार्थेषु नञ्द्वयप्रयोग: सिद्धः” इति । "महात्मगुरुदेवानामश्रुपातः क्षितौ यदि । देशभ्रंशो महद्दुःखं मरणं च भवेद्ध्रुवम् ॥” इति क्षितौ देवताश्रुपातनिषेधदर्शनाद्यक्षस्य मरणाभावसूचनार्थं तरुकिसलयेषु पतन्तीत्युक्तम् ।।
(४३) हे प्रिये ! स्वप्ने दष्टां त्वामालिङ्गितुं प्रसारितबाहुमपि विफलप्रयासं मां वीक्ष्य वनदेवता अपि रुदन्तीति भावः ।
१निशि.