पृष्ठम्:मेघदूतम् (सञ्जीविनीव्याख्यासमेतम्).djvu/८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८४
मेघदूतम् ।

 इदानीं तदङ्गस्पृष्टवस्तुदर्शनमाह-

 भित्त्वा सद्यः किसलयपुटान्देवदारुद्रुमाणां
  ये तत्क्षीरस्रुतिसुरभयो दक्षिणेन प्रवृत्ताः ।
 आलिङ्ग्यन्ते गुणवति मया ते तुषाराद्रिवाताः
  पूर्वं स्पृष्टं यदि किल भवेदङ्गमेभिस्तवेति ॥४४॥

 भित्त्वेति ॥ देवदारुद्रुमाणां किसलयपुटान्पल्लवपुटान्सद्यो भित्त्वा । तत्क्षीरस्रुतिसुरभयस्तेषां देवदारुद्रुमाणां क्षीरश्रुतिभिः क्षीरनिष्यन्दैः सुरभयः सुगन्धयः । तुषाराद्रिजातत्वे लिङ्गमिदम् । ये वाता दक्षिणेन दक्षिणमार्गेण ॥ तृतीयाविधाने प्रकृत्यादिभ्य उपसंख्यानात्तृतीया समेन यातीतिवत् । तत्रापि करणत्वस्य प्रतीयमानत्वात् "कर्तृकरणयोरेव तृतीया" इति भाष्यकारः ॥ प्रवृत्ताश्चलिताः हे गुणवति सौशील्यसौकुमार्यादिगुणसंपन्ने, ते तुषाराद्रिवाताः पूर्वं प्रागेभिर्वातैस्तवाङ्गं स्पृष्टं भवेद्यदि किलेति संभावितमेतदिति बुद्ध्येत्यर्थः । "वार्तासंभाव्ययोः किल' इत्यमरः ॥ मयालिङ्ग्यन्त आश्लिष्यन्ते ॥ अत्र वायूनां स्पृश्यत्वेऽप्यमूर्तत्वेनालिङ्गनायोगादालिङ्ग्यन्त इत्यभिधानं यक्षस्योन्मत्तत्वात्प्रलपितमित्यदोष इति वदन्निरुक्तकारः स्वयमेवोन्मत्तप्रलापीत्युपेक्षणीयः ॥

 संक्षिप्येत क्षण इव कथं दीर्घयामा त्रियामा
  सर्वावस्थास्वहरपि कथं मन्दमन्दातपं स्यात् ।
 इत्थं चेतश्चटुलनयने दुर्लभप्रार्थनं मे
  गाढोष्माभिः कृतमसरणं त्वद्वियोगव्यथाभिः॥४५॥

 संक्षिप्येतेति ॥ दीर्घा यामाः प्रहरा यस्यां सा दीर्घयामा । विरहवेदनया तथा प्रतीयमानेत्यर्थः त्रियामा रात्रिः ॥ "आद्यन्तयोरर्धयामयोर्दिनव्यवहारात्त्रियामा ।" इति क्षीरस्वामी ॥ क्षण इव कथं


 (४४) हे गुणवति ! देवदारुपत्रक्षीरसुगन्धयुक्ता दक्षिणवायवस्त्वदङ्गस्पर्शवत्त्वधिया मयाऽऽलिङ्ग्यन्त इति भावः ।
 (७५) हे चञ्चलाक्षि ! रात्रेर्दीर्घयामत्वादह्नश्च तीव्रातपत्वादित्थं मदीयं चेतस्त्वद्वियोगव्यथाभिराकुलीकृतमिति भावः ।

१ एतत्. २ संक्षिप्यैवम्. ३ क्षणम्. ४ मया. ५ तद्वियोग.