पृष्ठम्:मेघदूतम् (सञ्जीविनीव्याख्यासमेतम्).djvu/८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७६
मेघदूतम् ।

मसंभवात् । स चासौ कदलीस्तम्भश्च स इव गौरः पाण्डुरः ॥ "गौरः करीरे सिद्धार्थे शुक्ले पीतेऽरुणेऽपि च" इति मालतीमालायाम् ॥ अस्याः प्रियाया वाम ऊरुश्चलत्वं स्पन्दनं यास्यति प्राप्स्यते ॥ "ऊरोः स्पन्दाद्रतिं विद्यादूर्वोः प्राप्तिं सुवाससः" इति निमित्तनिदाने ॥

 तस्मिन्काले जलद यदि सा लब्धनिद्रासुखा स्या-
  दस्वास्येमां स्तनिंतविमुखो याममात्रं सहस्व ।
 माभूदस्याः प्रणयिनि मयि स्वप्नलब्धे कथंचि-
  त्सद्यःकण्ठच्युतभुजलताग्रन्थि गाढ़ोपगूढम् ॥३४॥

 तस्मिन्निति ॥ हे जलद, तस्मिन्काले त्वदुपसर्पणकाले सा मत्प्रिया लब्धं निद्रासुखं यया तादृशी स्याद्यदि स्याच्चेत् । एनां निद्राणामन्वास्य । पश्चादासित्वेत्यर्थः । उपसर्गवशात्सकर्मकत्वम् ॥ स्तनितविमुखो गर्जितपराङ्मुखो निःशब्दः सन् । अन्यथा निद्राभङ्गः स्यादिति भावः । याममात्रं प्रहरमात्रम् "द्वौ यामप्रहरौ समौ' इत्यमरः । सहस्व प्रतीक्षस्व ॥ प्रार्थनायां लोट ॥ शक्तयोरेकवारसुरतस्य यामावधिकत्वात्स्वप्नेऽपि तथा भवितव्यमित्यभिप्रायः । तथा च रतिसर्वस्वे--"एकवारावधिर्यामो रतस्य परमो मतः । चण्डशक्तिमतो यूनोरद्भुतक्रमवर्तिनोः ॥” इति ॥ यामसहनस्य प्रयोजनमाह-मा भूदिति ॥ अस्याः प्रियायाः प्रणयिनि प्रयसि मयि कथंचित्कृच्छ्रेण स्वप्नलब्धे सति गाढ़ालिङ्गनम् ।। नपुंसके भावे क्तः ॥ सद्यस्तत्क्षणं कण्ठाच्च्युतः स्रस्तो भुजलतयोर्ग्रन्थिर्बन्धो यस्य तन्मा भून्मास्तु । कथंचिल्लब्धस्यालिङ्गनस्य सद्यो विघातो मा भूदित्यर्थः न चात्र निद्रोक्तिः "तामुन्निद्राम्” इति पूर्वोक्तन निन्द्राच्छेदेन विरुध्यते, पुनः सप्तम्याद्यवस्थासु पाक्षिकनिद्रासंभवात् । तथा च रसरत्नाकरे "आसक्ती रोदनं निद्रानिर्लज्जानर्थवाग्भ्रमः । सप्तमादिषु जायन्ते दशाभेदेषु वासुके ॥” इति ॥

 तामुत्थाप्य स्वजलकणिकाशीतलेनानिलेन
  प्रत्याश्वस्तां सममभिनवैर्जालकैर्मालतीनाम् ।


 (३४, हे मेघ ! स्वदुपसर्पणक्षणे निद्रितायाः प्रियाया निद्राविधातो यथा न भवेत्तथा त्वया विधेयमिति भावः ।

१ अन्वासीनः; तत्रासीनः. २ सहेथाः.