पृष्ठम्:मेघदूतम् (सञ्जीविनीव्याख्यासमेतम्).djvu/६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५९
उत्तरमेघः ।

रिधेयमण्डनमेतत् नयनयोर्विभ्रमाणामादेश उपदेश दक्षम् । अनेन विभ्रमारा मधुनो मण्डनत्वमनुसंधेयम् । तच्च मण्डनादिवद्देहधार्येऽन्तर्भाव्यम् । मधु मद्यम् । किसलयैः पल्लवैः सह पुष्पोद्भेदम् । उभयं चेत्यर्थः ॥ इदं तु कचधार्यम् । भूषणानां विकल्पान्विशेषान् । देहधार्यमेतत् । तथा चरणकमलयोन्यासस्य समर्पणस्य योग्यम् । रज्यतेऽनेनेति रागो रञ्जकद्रव्यम् । लाक्षैव रागस्तं लाक्षारागं च ॥ चकारोऽङ्गरागादिविलेपनमण्डनोपलक्षणार्थः ॥ सकलं सर्वम् । चतुर्विधमपीत्यर्थः । अबलामण्डनं योषित्प्रसाधनजातमेकः कल्पवृक्ष एव सूते जनयति । न तु नानासाधनपादनप्रयास इत्यर्थः ॥

 इत्थमलकायां वर्णयित्वा तत्र स्वभवनस्याभिज्ञानमाह-

 तत्रागारं धनपतिगृहानुत्तरेणास्मदीयं
  दूराल्लक्ष्यं सुरपतिधनुश्चारुणा तोरणेन ।
 यस्योपान्ते कृतकतनयः कान्तया वर्धितो मे
  हस्तप्राप्यस्तबकनमितो बालमन्दारवृक्षः ॥१२॥

 तत्रेति ॥ तत्रालकायां धनपतिगृहात्कुबेरगृहादुत्तरेणोत्तरस्मिन्नदूरदेशे ॥ "एनबन्यतरस्यामदूरेऽपञ्चम्याः" इत्येनप्प्रत्ययः । "एनपा द्वितीया" इति द्वितीया ॥ 'गृहाः पुंसि च भूम्न्येव" इत्यमरः ॥ अथवा "उत्तरेण" इति नैनप्प्रत्ययान्तं किंतु "तोरणेन" इत्यस्य विशेषणं तृतीयान्तम् ॥ धनपतिगृहादुत्तरस्यां दिशि यत्तोरणं बहिर्द्वारं तेन लक्षितमित्यर्थः ॥ अस्माकमिदमस्मदीयम् ॥ "वृद्धाच्छः" इति पक्षे छप्रत्ययः ॥ अगारं गृहम । सुरपतिधनुश्वारुणा मणिमयत्वादभ्रंकषत्वाच्चेन्द्रचापसुन्दरेण तोरणेन बहिर्द्वारेण दूराल्लक्ष्यं दृश्यम् । अनेनाभिज्ञानेन दूरत एव ज्ञातुं शक्यमित्यर्थः ॥ अभिज्ञानान्तरमाह-यस्यागारस्योपान्ते प्राकारान्तः पार्श्वदेशे मे मम कान्तया वर्धितः पोषितः कृतकतनयः कृत्रिमसुतः । पुत्रत्वेनाभिमन्यमान इत्यर्थः ॥ हस्तेन प्राप्यैर्हस्तावचेयैः स्तवकै-


 (१२) हे मेघ ! तत्रालकायां कुबेरभवनादुत्तरभागे मम गृहमस्ति बालकल्प हरपि तत्परिचायक इति भावः ।

१ अत्र. २ गृहात्. ३ सदमरधनुः. ४ उद्याने. ५ विनतः, ६ गृहादिति पञ्चम्यन्तपाठपक्षे.