पृष्ठम्:मेघदूतम् (सञ्जीविनीव्याख्यासमेतम्).djvu/६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५८
मेघदूतम् ।

येषां तैर्हारैश्च सूच्यते ज्ञाप्यते । मार्गपतितमन्दारकुसुमादिलिङ्गैरयमभिसारिकाणां पन्था इत्यनुमीयत इत्यर्थः ॥

 मत्वा देवं धनपतिसखं यत्र साक्षाद्वसंतं
  प्रायश्चापं न वहति भयान्मन्मथः षट्पद्ज्यम् ।
 सभ्रू भंगप्रहितनयनैः कामिलक्ष्येष्वमोघै-
  स्तस्यारम्भश्चतुरवनिताविभ्रमैरेव सिद्धः ॥१०॥

 मत्वेति ॥ यत्रालकार्या मन्मथः कामः । धनपतेः कुबेरस्य सखेति धनपतिसखः । "राजाहःसखिभ्यष्टच्" । तं देवं महादेवं साक्षाद्वसन्तं सखिस्नेहानिजरूपेण वर्तमानं मत्वा ज्ञात्वा भयाद्भालेक्षणभयात्षट्पदा एव ज्या मौर्वी यस्य तं चापं प्रायः प्राचुर्येण न वहति न बिभर्ति ॥ कथं तर्हि तस्य कार्यसिद्धिरत आह-सभ्र भङ्गेति ॥ तस्य मन्मथस्यारम्भः कामिजनविजयव्यापारः सभ्रूभङ्गं प्रहितानि प्रयुक्तानि नयनानि दृष्टयो येषु तस्तथोक्तैः कामिन एव लक्ष्याणि तेष्वमोधैः । सफलप्रयोगैरित्यर्थः ॥ मन्मथचापोऽपि क्वचिदपि मोघः स्यादिति भावः ॥ चतुराश्च ता वनिताश्च तासां विभमैर्विलासरेव सिद्धो निष्पन्नः । यदनर्थकरं पाक्षिकफलं च तत्प्रयोगाद्वरं निश्चितसाधनप्रयोग इति भावः ॥ । "कचधार्य देहधार्यं परिधेयं विलेपनम् । चतुर्धा भूषणं प्राहुः स्त्रीणांमन्यच्चदैशिकम् ॥ इति रसाकरे । तदेवैतदाह-

 वासश्चित्रं मधु नयनयोविभूमादेशदक्षं
  पुष्पोद्भेदं सह किसलयैर्भूषणानां विकल्पान् ।
 लाक्षारागं चरणकमलन्यासयोग्यं च यस्या-
  मेकः सूते सकलमबलामण्डनं कल्पवृक्षः ॥११॥

 वास इति ॥ यस्यामलकायां चिनं नानावर्णं वासो वसनम् । परि-


 (१०) हे मेघ ! यत्रालकायां कामोऽपि हरभीत्या भ्रमरमौर्वीकं चापं न वहति चतुरस्त्रीविलासैरेव कार्यं साधयतीति भावः ।
 (११) हे मेघ ! यत्रालकायां विविधवर्णवसनादिसकलस्त्रीभूषणमेकः सुरतरुरेवोत्पादयतीति भावः ।

१ कामलक्षेषु. २ चटुल.