पृष्ठम्:मेघदूतम् (सञ्जीविनीव्याख्यासमेतम्).djvu/५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५४
मेघदूतम् ।

न्येव कुसुमानि ते रचितानि परिष्कृतानि ॥ "ज्योतिस्ताराग्निभाज्वालादृक्पुत्रार्थाध्वरात्मसु" इति वैजयन्ती ॥ एतेन पानभूमेरम्लानशोभत्वमुक्तम् । हर्म्यस्थलान्येत्य प्राप्य । त्वद्गम्भीरध्वनिरिव ध्वनिर्येषां तेषु पुष्करेषु वाद्यभाण्डमुखेषु ॥ "पुष्करं करिहस्ताग्रे वाद्यभाण्डमुखे जले" इत्यमरः ॥ शनकैर्मन्दमाहतेषु सत्सु ॥ एतञ्च नृत्यगीतयोरप्युपलक्षणम् ॥ कल्पवृक्षप्रसूतं कल्पवृक्षस्य काङ्क्षितार्थप्रदत्वान्मध्वपि तत्र प्रसूतम् । रतिः फलं यस्य तद्रतिफलाख्यं मधु मद्यमासेवन्ते । आदृत्य पिबन्तीत्यर्थः ॥ "तालक्षीरसितामृतामलगुडोन्मत्तास्थिकालाह्वयादार्विन्द्रद्रुममोरटेक्षुकदलीगुल्मप्रसूनैर्युतम् । इत्थं चेन्मधुपुष्पभङ्ग्यपचितं पुष्पद्रुमूलावृतं क्काथेन स्मरदीपनं रतिफलाख्यं स्वादु शीतं मधु ॥" इति मदिरार्णवे ॥

 मन्दाकिन्याः सलिलशिशिरैः सेव्यमाना मरुद्भि-
 मन्दाराणामनुतटरुहां छायथा वारितोष्णाः ।
  अन्वेष्टव्यैः कनकसिकतामुष्टिनिक्षेपगूढः
  संक्रीडन्त मणिभिरमरप्रार्थिता यत्र कन्याः ॥४॥

 मन्दाकिन्या इति ॥ यत्रालकायामप्ररैः प्रार्थिताः । सुन्दर्य इत्यर्थः । कन्या यक्षकुमार्यः । "कन्या कुमारिकानार्यो:" इति विश्वः ॥ मन्दाकिन्या गङ्गायाः सलिलेन शिशिरैः शीतलैमरुद्भिः सेव्यमानाः सत्यः । तथानुतटं तटेषु रोहन्तीत्यनुतटरुहः ॥ किम् ॥ तेषां मन्दाराणां छाययानातपेन वारितोष्णाः शमितातपाः सत्यः कनकस्य सिकतासु मुष्टिभिर्निक्षेपेण गूढैः संवृतैरत एवान्वेष्टव्यैर्मृग्यर्मणिभी रत्नैः संक्रीडन्ते । गुप्तमणिसंज्ञया दैशिकक्रीडया सम्यक्क्रीडन्तोत्यर्थः॥"क्रोडोऽनुसंपरिभ्यश्च" इत्यात्मनेपदम्॥ "रत्नादिभिर्वालुकादौ गुप्तैर्द्रष्टव्यकर्मभिः । कुमारीभिः कृता क्रोडा नाम्ना गुप्तमणिः स्मृता ॥ रासक्रीडा गूढमणिर्गुप्तचेलिस्तु लायनम् । पिच्छकन्दुकदण्डाद्यैः स्मृता दैशिककेलयः ॥" इति शब्दार्णवे ।।

 नीवीबन्धोच्छ्कसितशिथिलं यत्र विम्बाधराणां
  क्षौ मं रागादनिभृतकरेष्वाक्षिपत्सु प्रियेषु ।


 (४) हे मेघ ! यत्रालकायां सुरप्रार्थिता यक्षकन्या मणिभिः क्रीडन्ति तामलकामिति भावः


१ पयसि. २ उछ्वसन. ३ यक्षाङ्गनानाम्. ४ वासः कामात्.