यत्रेति ॥ यत्रालकायां पादपा वृक्षाः नित्यानि पुष्पाणि येषां ते तथा नत्वृतुनियमादिति भावः । अत एवोन्मत्तैर्भ्रमरैर्मुखराः शब्दायमानाः । नलिन्यः पद्मिन्यो नित्यानि पद्मानि यासां तास्तथा न तु हेमन्तवर्जितमित्यर्थः। अत एव हंसश्रेणीभी रचितरशनाः। नित्यं हंसपरिवेष्टिता इत्यर्थः । भवनशिखिनः क्रीडामयूरा नित्यं भास्वन्तः कलापा बर्हाणि येषां ते तथोक्ताः । न तु वर्षास्वेव । अत एव केकाभिरुत्कण्ठा उद्ग्रीवाः । प्रदोषा रात्रयो नित्या ज्योत्स्ना येषां ते । न तु शुक्लपक्ष एव । अत एव प्रतिहता तमसां वृत्तिर्ब्याप्तिर्येपां ते च ते रम्याश्चेति तथोक्ताः ।
आनन्दोत्थं नयनसलिलं यत्र नान्यैनिमित्तै-
र्नान्यस्तापः कुसुमशरजादिष्टसंयोगसाध्यात् ।
नाप्यन्यस्मात्प्रणयकलहाद्विप्रयोगोपपत्ति-
र्वित्तेशानां न च खलु वयो यौवनादन्यदस्ति ॥
आनन्देति ॥ यत्रालकायां वित्तेशानां यक्षाणाम् । "वित्ताधिपः कुबेरः स्यात्प्रभौ धनिकयक्षयोः” इति शब्दार्णवे ॥ आनन्दोत्थमानन्दजन्यमेव नयनसलिलम् । अन्यैर्निमित्तैः शोकादिभिन । इष्टसंयोगेन प्रियजनसमागमेन साध्यान्निवर्तनीयात् । न त्वप्रतीकार्यादित्यर्थः । कुसुमशरजान्मदनशरजादन्यस्तापो नास्ति ।प्रणयकलहादन्यस्मात्कारणाद्विप्रयोगोपपत्तिर्विरहप्राप्तिरपि नास्ति । किं च यौवनादन्यद्वयो वार्द्धकं नास्ति ॥ श्लोकद्वयं प्रक्षिप्तम् ।।
यस्यां यक्षाः सितमणिमयान्येत्य हर्म्यस्थलानि
ज्योतिश्छायाकुसुमरचितान्युत्तमस्त्रीसहायाः।
आसेवन्ते मधु रतिफलं कल्पवृक्षप्रसूनं
स्वद्गम्भीरध्वनिषु शनकैः पुष्करेष्वाहतेषु ॥३॥
यस्यामिति ॥ यस्यामलकायां यक्षा देवयोनिविशेषा उत्तमस्त्रीसहाया ललिताङ्गनासहचराः सन्तः सितमणिमयानि स्फटिकमणिमयानि चन्द्रकान्तमयानि वा । अत एव ज्योतिषां तारकाणां छायाः प्रतिबिम्बा-
(३) हे मेघ ! यत्रालकायां स्त्रीसहचरा यक्षा हम्यंस्थलमारुह्य सुरतरूत्पन्नं मध्यमासेवन्ते तां व्रजेति भावः ।
१ रसम्.