तस्य ॥ एतेन नयनकौतुकसद्भाव उक्तः ॥ त्रिर्दश परिमाणमेषामस्तीति त्रिदशाः ॥ "संख्ययाव्यया-" इत्यादिना बहुव्रीहिः । "बहुव्रीहोः संख्येये डच्-" इत्यादिना समासान्तो डजिति क्षीरस्वामी ॥ त्रिदशानां देवानां वनितास्तासां दर्पणस्य ॥ कैलासस्य स्फटिकत्वाद्रजतत्वाद्वा बिम्बप्राहित्वेनेदमुक्तम् ॥ कैलासस्यातिथिः स्याः। यः कैलासः कुमुदविशदैर्निर्मलैः शृङ्गाणामुच्छ्रायैरोन्नत्यैः खमाकाशं वितत्य व्याप्य प्रतिदिनं दिने दिने राशीभूतस्त्र्यम्बकस्य त्रिलोचनस्याट्टहासोऽतिहास इव स्थितः ॥ "अट्टावतिशमक्षौमौ" इति यादवः ॥ धावल्याद्धासत्वेनोत्प्रेक्षा । हासादीनां धावल्यं कविसमयसिद्धम् ॥
उत्पश्यामि त्वयि तटगते स्निग्धभिन्नाञ्जनाभे
सद्यः कृत्तद्विरददशनच्छेदगौरस्य तस्य ।
शोभामद्रेः स्तिमितनयनप्रेक्षणीयां भवित्री-
मंसन्यस्ते सति हलभृतो मेचके वाससीव ॥५६॥
उत्पश्यामीति ॥ स्निग्धं मसृणं भिन्नं मर्दितं च यदञ्जनं कज्जलं तस्याभेवाभा यस्य तस्मिंस्त्वयि तटगते सानुंगते सति सद्यः कृत्तस्य छिन्नस्य द्विरददशनस्य गजदन्तस्य छेदवद्गौरस्य धवलस्य तस्याद्रः कैलासस्य मेचके श्यामले ॥ “कृष्णे नीलासितश्यामकालश्यामलमेचकाः" इत्यमरः॥ वाससि वस्त्रेंऽसन्यस्ते सति हलभृतो बलभद्रस्येव स्तिमिताभ्यां नयनाभ्यां प्रेक्षणीयां शोभा भवित्रीं भाविनीमुत्पश्यामि । शोभा भविष्यतीति तर्कयामीत्यर्थः ॥ श्रौती पूर्णोपमालंकारः ।
हित्वा तस्मिन्भुजगवलयं शंभुना दत्तहस्ता
क्रीडाशैले यदि च विचरेत्पादचारेण गौरी ।
भङ्गीभक्त्या विरचितवपुः स्तम्भितान्तर्जलौघः
सोपानत्वं कुरु मणितटारोहणायाग्रयायी ॥६०॥
(५९) हे मेघ ! स्कन्धस्थितश्यामवस्त्रो बलराम इव भवदाक्रान्तशृङ्गः कैलासः
शोभिष्यत इति भावः।
(६०) हे मेघ ! कैलासे शिवहस्तमवलव्य विचरन्त्यां गौर्यां मणितटारोहणार्थं सोपानो भवेति भावः।
१ लीलामदेस्तिमिर. २ नीलम. ३ विहरेत्. कुरु सुखपदारोहणायाप्रयायी; ब्रज पदसुखस्पर्शमारोहणेषु.