इति वैजयन्ती ॥ तस्य प्राप्तये संकल्पन्ते समर्था भवन्ति ॥ क्लृपेः पर्याप्तिवचनस्यालमर्थत्वात्तद्योगे "नमःस्वस्ति-" इत्यादिना चतुर्थी ॥ "अलमिति पर्याप्त्यर्थग्रहणम्" इति भाष्यकारः ॥ "अव्यक्तं व्यञ्जयामास शिवश्रीचरणद्वयम् ॥ हिमाद्रौ शांभवादीनां सिद्धये सर्वकर्मणाम् ॥ दृष्ट्वा श्रीचरणन्यासं साधकः स्थितये तनुम् । इच्छाधीनशरीरो हि विचरेच्च जगत्त्रयम्" ॥ इति शंभुरहस्ये ॥
शब्दायन्ते मधुरमनिलैः कीचकाः पूर्यमाणाः
संसक्ताभित्रिपुरविजयो गीयते किंनरीभिः ।
निर्ह्रादस्ते मुरज इव चेत्कन्दरेषु ध्वनिः स्या-
त्संगीतार्थो ननु पशुपतेस्तत्र भावी समग्रः ॥५६॥
शब्दायन्त इति ॥ हे मेघ, अनिलैः पूर्यमाणाः कीचका वेणुविशेषाः "वेणवः कीचकास्ते स्युर्ये स्वनन्त्यनिलोद्घताः" इत्यमरः । “कीचको दैत्यभेदे स्याच्छुष्कवंशे द्रुमान्तरे" इति विश्वः ॥ मधुरं श्रुतिसुखं यथा तथा शब्दायन्ते शब्दं कुर्वन्ति । स्वनन्तीत्यर्थः ॥ "शब्दवैरकलहाभ्रकण्वमेघेभ्यः करणे" इत्यादिना क्यङ् ॥ अनेन वंशवाद्यसंपत्तिरका । संसक्ताभिः संयुक्ताभिर्वशवाद्यानुषक्ताभिर्वा ॥ “संरक्ताः" इति पाठे संरक्तकण्ठीभिरित्यर्थः ॥ किंनरीभिः किंनरस्त्रीभिः । त्रयाणां पुराणां समाहारस्त्रिपुरम् ॥ 'तद्धितार्थोत्तरपद्-' इति समासः ॥ पात्रादित्वानपुंसकत्वम् ॥ तस्य विजयो गीयते । कन्दरेषु दरीषु । “दरी तु कन्दरो वास्त्री" इत्यमरः । ते तव निर्ह्रादो मुरजे वाद्यभेदे ध्वनिरिव । मुरजध्वनिरिवेत्यर्थः । स्याच्चेत्तहि तत्र चरणसमीपे पशुपतेर्नित्यसंनिहितस्य शिवस्य संगीतम् ॥ "तौर्यत्रिकं तु संगीतं न्यायारम्भे प्रसिद्धके ॥ तूर्याणां त्रितये च" इति शब्दार्णवे ॥ तदेवार्थः संगीतार्थः संगीतवस्तु ॥ "अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु" इत्यमरः ॥ समग्रः संपूर्णे भावी ननु भविष्यति खलु ॥ "भविष्यति गम्यादयः" इति भविष्यदर्थे णिनिः॥
(५६) हे मेघ ! वायुपूरितकीचकमधुरशब्दैस्सह किंवरीभिः शिवो गीयते तय गम्भीरशब्दे जाते तु संगीतं सम्पूर्णं भविष्यतीति भावः ।
१ निर्ह्रादी. २ कन्दरासु. ३ समस्त:.