पृष्ठम्:मेघदूतम् (सञ्जीविनीव्याख्यासमेतम्).djvu/४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४०
मेघदूतम् ।

क्षत्रप्रधनपिशुनम् । अद्यापि शिरःकपालादिमत्तया कुरुपाण्डवयुद्धसूचकमित्यर्थः । "युद्धमायोधनं जन्यं प्रधनं प्रविदारणम्” इत्यमरः ॥ तत्प्रसिद्धं कुरूणामिदं कौरवं क्षेत्रं भजेथाः। कुरुक्षेत्रं व्रजेत्यर्थः । यत्र कुरुक्षेत्रे गाण्ड्यस्यास्तीति गाण्डीवं धनुर्विशेषः ॥ “गाण्ड्यजगात्संज्ञायाम्" इति मत्वर्थीयो वप्रत्ययः ॥ "कपिध्वजस्य गाण्डीवगाण्डिवौ पुंनपुंसकौ" इत्यमरः ॥ तद्धनुर्यस्य स गाण्डीवधन्वाऽर्जुनः ॥ "वा संज्ञायाम्" इत्यनङादेशः ॥ सितशरशतैनिशितबाणसहस्रै राजन्यानां राज्ञां मुखानि धाराणामुदकधाराणां पातैः कमलानि त्वमिवाभ्यवर्षदभिमुखं वृष्टवान् । शरवर्षेण शिरांसि चिच्छेदेत्यर्थः ।

 हित्वा हालामभिमतरसां रेवतीलोचनाङ्कां
  बन्धुप्रीत्या समरविमुखो लाङ्गली याः सिषेवे ।
 कृत्वा तासामभिगममपां सौम्य सारस्वतीना-
  मन्तः शुद्धस्त्वमपि भविता वर्णमात्रेण कृष्णः ॥४६॥

 हित्वेति ॥ बन्धुप्रीत्या कुरुपाण्डवस्नेहेन ।। न तु भयेन । समरविमुखो युद्धनिःस्पृहः । लाङ्गलमस्यास्तीति लाङ्गली हलधरः । अभिमतरसामभीष्टस्वादां तथा रेवत्याः स्वप्रियाया लोचने एवाङ्कः प्रतिबिम्बितत्वाच्चिह्न यस्यास्तां हालां सुराम् । “सुरा हलिप्रिया हाला" इत्यमरः ।। "अभिप्रयुक्तं देशभाषापदमित्यत्र सूत्रे हालेति देशभाषापदमप्यतीव कविप्रयोगात्साधु " इत्युदाजहार वामनः ॥ हित्वा त्यक्त्वा । दुस्त्यजामपीति भावः । याः सारस्वतीरपः सिषेवे । हे सौम्य सुभग, त्वं तासां सरस्वत्या नद्या इमाः सारस्वत्यस्तासामभिगमं सेवां कृत्वान्तोऽन्तरात्मनि शुद्धो निर्मलो निर्दोषो भविता ॥ “ण्वुल्तृचौ" इति तृच् ॥ अपि सद्य एव पूतो भविष्यसीत्यर्थः ॥ “वर्तमानसामीप्ये वर्तमानवद्वा” इति वर्तमानप्रत्ययः ॥ वर्णमात्रेण वर्णेनैव कृष्णः श्यामः । न तु पापेनेत्यर्थः । अन्तःशुद्धिरेव संपाद्या न तु बाह्या । बहिःशुद्धोऽपि सूतवधप्रायश्चित्तार्थं सारस्वतसलिलसेवी तत्र भगवान्बलभद्र एव निदर्शनम् । अतो भवतापि सरस्वती सर्वथा सेवितव्येति भावः ।


 (४९) हे मेघ ! बलरामः सुराम्परित्यज्य यस्या: सरस्वतीसरितो जलमसेवत तस्या जलम्पीत्वा त्वमपि सद्यः पूतो भविष्यसीति भावः ।

१ भूत्वा; कृत्वा, छित्वा. २ अधिगमम् ।