पृष्ठम्:मेघदूतम् (सञ्जीविनीव्याख्यासमेतम्).djvu/४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३९
पूर्वमेघः ।

 कुन्दक्षेपानुगमधुकरश्रीमुषामात्मबिम्बं
  पात्रीकुर्वन्दशपुरवधूनेत्रकौतूहलानाम् ॥४७॥

 तामिति ॥ तां चर्मण्वतीमुत्तीर्य भ्रूवो लता इव भ्रूलताः । उपमितसमासः ॥ तासां विभ्रमा विलासाः परिचिताः क्लृप्ता येषु तेषां पक्ष्माणि नेत्रलोमानि || "पक्ष्म सूत्रे च सूक्ष्मांशे किञ्जल्के नेत्रलोमनि" इति विश्वः ॥ तेषामुत्क्षेपादुन्नमनाद्धेतोः । कृष्णाश्च ताः शाराश्च कृष्णशारा नीलशवलाः । “वर्णो वर्णेन" इति समासः ॥ "कृष्णरक्तसिताः साराः" इदि यादवः। ततश्च शारशब्दादेव सिद्धे कार्ष्ण्ये पुनः कृष्णपदोपादानं कार्ष्ण्यप्राधान्यार्थम् । रक्तत्वं तु न विवक्षितमुपमानानुसारात्त्तस्य स्वाभाविकस्य स्त्रीनेत्रेषु सामुद्रिकविरोधादितरस्याप्रसङ्गात् । कचिद्भावकथनं तूपपत्तिविषयम् ॥ उपरि विलसन्त्यः कृष्णसाराः प्रभा येषां तेषाम् । कुन्दादि माध्यकुसुमानि ॥ "माध्यं कुन्दम्" इत्यमरः ॥ तेषां क्षेप इतस्ततश्चलनं तस्यानुगा अनुसारिणो ये मधुकरास्तेषां श्रियं मुष्णान्तीति तथोक्तानाम् । क्षिप्यमाणकुन्दानुविधायिमधुकरकल्पानामित्यर्थः । दशपुरं रन्तिदेवस्य नगरं तस्य वध्वः स्त्रियः । “वधूर्जाया स्नुषा स्त्री च” इत्यमरः ॥ तासां नेत्रकौतूहलानां नेत्राभिलाषाणाम् । साभिलाषदृष्टीनामित्यर्थः । आत्मबिम्बं स्वमूर्ति पात्रीकुर्वन्व्रज गच्छ ॥

 ब्रह्मावर्तं जनपदमथ च्छायया गाहमानः
  क्षेत्रं क्षत्रप्रधनपिशुनं कौरवं तद्भजेथाः।
 राजन्यानां सितशरशतैर्यत्र गाण्डीवधन्वा
  धारापातैस्त्वमिव कमलान्यभ्यवर्षन्मुखानि ॥४८॥

 ब्रह्मावर्तमिति ॥ अथानन्तरं ब्रह्मावर्तं नाम जनपदं देशम् ॥ अत्र मनु: -"सरस्वतीदृषद्वत्योर्देवनद्योर्यदन्तरम् । तं देवनिर्मितं देशं ब्रह्मावर्तं प्रचक्षते ॥" इति ॥ छाययाऽनातपमण्डलेन गाहमानः प्रविशन्न तु स्वरूपेण । “पीठक्षेत्राश्रमादीनि परिवृत्यान्यतो व्रजेत्" इति वचनात् ।


 १४७) हे मेघ ! चर्मण्वती नदीमुत्तीर्य रन्तिदेवनगरवासिस्त्रीवर्गान् स्वमूर्तिं दर्शयन् गच्छेति भावः।
 (४८) हे मेघ ! ब्रह्मावर्तनामदेशं छायया प्रविशन् कुरुक्षेत्रं ब्रजेति भावः ।

'युषाम्. २ अधः; अदुः. ३ अभ्यषिञ्चत्.