पृष्ठम्:मेघदूतम् (सञ्जीविनीव्याख्यासमेतम्).djvu/४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३७
पूर्वमेघः ।

 ज्योतिरिति ॥ ज्योतिषस्तेजसो लेखा राजयस्तासां वलयं मण्डयस्यास्तीति तथोक्तम् गलितं भ्रष्टम् । न तु लोल्यात्स्वयं छिन्नमिति भावः । यस्य मयूरस्य बर्हं पिच्छम् । “पिच्छबर्हे नपुंसके” इत्यमरः ॥ भवानी गौरी । पुत्रप्रेम्णा पुत्रस्नेहेन कुवलयस्य दलं पत्रं तत्प्रापि तद्योगि यथा तथा कर्णे करोति । दलेन सह धारयतीत्यर्थः । यद्वा कुवलयस्य दलप्रापि दलभाजि दलार्हे कर्णे करोति ॥ क्विबन्तात्सप्तमी ।। दलं परिहृत्य तत्स्थाने बर्हं धत्त इत्यर्थः ॥ नाथस्तु "कुवलयदलक्षेपि” इति पाठमनुसृत्य "क्षेपो निन्दापसारणं वा” इति व्याख्यातवान् ॥ हरशशिरुचा हरशिरश्चन्द्रिकया धौतापाङ्ग स्वतोऽपि शौक्ल्यादतिधवलितनेत्रान्तम् "अपाङ्गौ नेत्रयोरन्तौ” इत्यमरः ॥ पावकस्याग्नेरपत्यं पावकिः स्कन्दः ॥ “अत इञ्" इति इञ् ॥ यस्य तं पूर्वोक्तं मयूरं पश्चात्पुष्पाभिषेचनानन्तरमद्रेर्देवगिरेः कर्तुः ॥ ग्रहणेन गुहासंक्रमणेन गुरुभिः । प्रतिध्वानमहद्भिरित्यर्थः । गर्जितैर्नर्तयेथा नृत्यं कारय । मार्दङ्गिकभावेन भगवन्तं कुमारमुपास्स्वेति भावः ।। "नर्तयेथाः" इत्यत्र "अणावकर्मकाच्चित्तवत्कर्तृकात्" इत्यात्मनेपदापवादः । “निगरणचलनार्थेभ्यश्च" इति परस्मैपदं न भवति तस्य "न पादम्याङयमाङ्यसपरिमुहरुचिनृतिवदवसः" इति प्रतिषेधात् ॥

 आराध्यैनं शरवणभवं देवमुल्लङ्घिताध्वा
  सिद्धद्वन्द्वैर्जलकणभयाद्वोणिभिर्मुक्तमार्गः।
 व्यालम्बेथाः सुरभितनयालम्भजां मानयिष्यन्
  स्रोतोमूर्त्या भुवि परिणतां रन्तिदेवस्य कीर्तिम् ॥४॥

 आराध्येति ॥ एनं पूर्वोक्तं शरा बाणतृणानि ।। “शरो बाणे बाणतृणे” इति शब्दार्णवे ॥ तेषां वनं शरवणम् ॥ “प्रनिरन्तःशर-" इत्यादिना णत्वम् ॥ तत्र भवो जन्म यस्य तं शरवणभवम् ॥ "अवर्ज्यो बहुव्रीहिर्व्यधिकरणो जन्माद्युत्तरपदः" इति वामनः । अवर्ज्योऽगतिकत्वादाश्रयणीय इत्यर्थः । देवं स्कन्दम् ।। "शरजन्मा षडाननः" इत्यमरः ॥ आराध्योपास्य वीणिभिर्वीणावद्भिः ॥ व्रीह्यादित्वादिनिः॥


 (४५) हे मेघ ! स्कन्दमाराध्य चर्मण्वतीं नदीं सत्कारयिष्यन् गच्छेरिति भावः ।

१ दत्त मार्गः, दत्तवर्त्मा.