पृष्ठम्:मेघदूतम् (सञ्जीविनीव्याख्यासमेतम्).djvu/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३०
मेघदूतम् ।

कुर्वन्संपादयनामन्द्राणामीषद्गम्भीराणां गर्जितानामविकलमखण्डं फलं लप्स्यसे प्राप्स्यसि ॥ लभेः कर्तरि लुट् ॥ महाकालनाथबलिपटहत्वेन विनियोगात्ते गर्जितसाफल्यं स्यादित्यर्थः ।।

 पादन्यासः क्वणितरशनास्तत्र लीलावधूत-
  रत्नच्छायाचितवलिभिश्चामरैः क्लान्तहस्ता।
 वेश्यास्त्वत्तो नखपदसुखान्प्राप्य वर्षाग्रविन्दू-
  नामोक्ष्यन्ते त्वयि मधुकरश्रेणिदीर्घान्कटाक्षान्॥३॥

 पादन्यासैरिति ।। र सन्ध्याकाले ॥ पादन्यासैश्चरणनिक्षेपैर्नृत्याङ्ग करिणताः शब्दायमाना रशना यासां तास्तथोक्ताः ॥ कणतेरकर्मकत्वात “गत्यर्थाकर्मक-" इत्यादिना कर्तरि क्तः ॥ लीलया विलासेनावधूतैः कम्पितैः रत्नानां कङ्कणमणीनां छायया कान्त्या खचिता रूषिता वलय. श्वामरदण्डा येषां तैः ॥ “बलिश्चामरदण्डे च जराविश्लथचर्मणि" इति विश्वः ॥चामरैर्बालव्यजनैः क्लान्तहस्ताः ॥ एतेन देशिकं नृत्यं सूचितम् । तदुक्तं नृत्यसर्वस्त्रे-"खड़गकन्दुकवस्त्रादिदण्डिकाचामरसृजः । वीणां च धृत्वा यत्कुर्युनत्यं तद्देशिकं भवेत् ॥” इति ॥ वेश्या महाकालनाथमुपेत्य नृत्यन्त्यो गणिकास्त्वत्तो नखपदेषु नखक्षतेषु सुखान्सुखकरान ॥ "सुख. हेतौ सुखे सुखम्" इति शब्दार्णवे ॥ वर्षस्याप्रबिन्दून्प्रथमबिन्दून्प्राप्य त्वयि मधुकरश्रेणिदीर्दान्कटाक्षानपाङ्गानामोक्ष्यन्ते । “परैरुपकृताः सन्तः सद्यः प्रत्युपकुर्वते" इति भावः । कामिनीदर्शनीयत्वलक्षणं शिवोपासना- फलं सद्यो लफ्यस इति ध्वनिः ॥

 पश्चादुच्चे जतरुवनं मण्डलेनाभिलीनः
  सान्ध्यं तेजः प्रतिनवजपापुष्परक्तं दधानः ।
 नृत्यारम्भे हर पशुपतेराईनागाजिनेच्छा
  शान्तीदेगस्तिमितनयनं दृष्ट्रभक्तिर्भवान्या ॥३६॥


 (३५)ह मेघ ! संध्याकाले महाकालदर्शनार्थमागतानां वारांगनानां दर्शनात्मकं शिवरामनाफलं ते भविष्यतीति भावः ।
 (३६) हे मेघ ! तत्र शिवताण्डवकाले साध्यमरणं तेजो दधत् त्वं गजपर्म विलोकनात जातं भवानीसाध्वसमपनयेति भावः ।

पदन्यास. २ रचित. ३ कान्त. ४ नरतारम्भे.