पृष्ठम्:मेघदूतम् (वल्लभदेवव्याख्यासमेतम्).djvu/७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
46
MEGHADUTA

न तथा दुःखयेद्यथा रात्रौ शङ्के संभावये । यतो निर्विनोदां चित्रव्यापारादिवर्जिताम् । अत एव गुरुतरशुचमतिदुःखिताम् । कोदृशीं ताम् । एवंविधामेकां वेणीं कठोरपरुषात्कपोलफलकादघटितकरजेन पाणिना मारयन्तीमालोकार्थमपास्यन्तीम् । कीदृशीं वेणीम् । याद्ये प्रथमे विरहदिवसे वियोगदिने चूडाशेखरमपास्य तया वेष्टिता । या च नष्टशोकेन मया मोचमीया । एवं ह्येष विरहाचारः । स्नेहाभावाच्च स्पर्शे क्लिष्टां परुषाम् । त्वं कीदृशः । अवनी भुवि न तु खट्टायां यच्छयनं तल्पे तस्यासन्ने निकटे वातायने गवाक्षे तिष्ठति यः स तथोक्तः ॥ ८५ ॥ ८६ ॥

  आधिक्षामां विरहशयने संनिकीर्णैकपार्श्वां
  प्राचीमूले तनुमिव कलामात्रशेषां हिमांशोः ।
  मत्संयोगः कथमुपनमेत्स्वप्नजोऽपीति निद्रा-
  माकाङ्क्षन्तीं नयनसलिलोत्पीडरुद्धावकाशाम् ॥ ८७ ॥

 अन्यच्च कोदृशीं ताम् । आधिक्षामां चित्तपीडाकृशाम् । अत एव यादृशे तादृशे विरहशयने संनिकीर्णं क्षिप्तमेकं पार्श्वं यया । अतश्चामावस्यायां प्राचीमूले पूर्वदिङ्मुखे कलामात्रशेषां हिमांशोश्चन्द्रमसे मूर्तिमिवेत्युपमा । तथा निद्रामभिलषन्तीम् । किमर्थम् । मया सह कथं नाम स्वप्ने समागमो घटेतेति । नयनसलिलोत्पीडेन नेत्राम्बुपूरेण रुद्धावकाशां निवृत्तप्रसराम ॥ ८७ ॥

  निःश्वासेनाधरकिसलयक्लेशिना विक्षिपन्तीं
  शुद्धस्नानात्परुषमलकं नूनमागण्डलम्बम् ।
  नीता रात्रिः क्षण इव मया सार्धमिच्छारतैर्या
  तामेवोष्णैर्विरहशयनेष्वस्रुभिर्यापयन्तीम् ॥ ८८ ॥


। मंमिपणे क. J, M, D. ? For the second half of verse 87, J, M, S substitute that of versc 88. मत्संभोगः M. कथमुपनये. J', कथमपि भवे. S, मुग्वमुपनये. D. इन्दोः for fratuit: A, B, C, D. For the second half of verse 88, J, M, S mulbstitute that of verse 87. चणमिव J, D. .रहमह. तीमश्रुभि. J, M, S. 8