पृष्ठम्:मेघदूतम् (वल्लभदेवव्याख्यासमेतम्).djvu/७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
45
MEGHADUTA

  शेषान्मासान्गमनदिवसप्रस्तुतस्यावधेर्वा
  विन्यस्यन्ती भुवि गणनया देहलीदत्तपुष्पैः ।
  संयोगं वा हृदयनिहितारम्भमास्वादयन्ती
  प्रायेणैते रमणविरहेष्वङ्गनानां विनोदाः ॥ ८४ ॥

 गमनदिवसात्प्रवृत्तो योऽवधिर्वर्षाख्यस्तस्य शेषान्मासानवनौ भुवि विन्यस्यन्ती स्थापयन्ती । कैः । देहल्यां द्वारविशेषे द्वारपूजार्थं दत्तैः पुष्पैर्या गणना तया । रेखापदेषु पुष्पाणि दत्त्वेत्यर्थः । हृदयनिहितारम्भं मनोरथरचितं मत्संगमं वास्वादयन्त्यनुभवन्ती । कथमवगच्छस्येतादृशान्व्यापारान्कुर्वतीत्याह । यम्मादिष्टवियोगे विरहिणीनां प्रायेणैवंविधा एव विनोदाः केलयो भवन्ति ॥ ८४ ॥

  आद्ये बद्धा विरहदिवसे या शिखादाम हित्वा
  शापस्यान्ते विगलितशुचा या मयोन्मोचनीया ।
  स्पर्शक्लिष्टामयमितनखेनासकृत्सारयन्तीं
  गण्डाभोगात्कठिनविषमादेकवेणीं करेण ॥ ८५ ॥

  सव्यापारामहनि न तथा खेदयेद्विप्रयोगः
  शङ्के रात्रौ गुरुतरशुचं निर्विनोदां सखीं ते ।
  मत्संदेशैः मुखयितुमतः पश्य साध्वीं निशीथे
  तामुन्निद्रामवनिशयनासन्नवातायनस्थः ॥ १६ ॥

 तां सखीमुन्निद्रा सतीं त्वमत: कारणान्निशीथेऽर्धरात्रे मत्संदेशैः सुखयितुं पश्येर्न तु दिवसे । कुत इत्याह । सव्यापारत्वादहनि तां विरहो


A .. . 1 °मान्विरहदिवस J, M; स्थापितस्या' J, M, S, ID, प्रस्थि- तस्या. C. मुक्तपुप्पः J, S. D. 3 मंभोगं वा M, मत्सङ्गंवा, मत्संयोगं D. हृदयरचिता.J. 3 .विरहे ह्यङ्गनामS. "तां मयोदेष्टमीयाम J, M, S, मा मयोद्वेष्टनीया D. 'विषमामेक. J, M, S, D. पीडये J, M, S, D; मदियोगः S, !). 9 मलं , S, D. 10 शयना सन.J, S, D, शयना सीध. M. 8