पृष्ठम्:मृच्छकटिकम्.pdf/७४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६६
मृच्छकटिके

आयें ! पा[१]टलिपुत्रं मे जन्मभूमिः । गृ[२]हपतिदारकोऽहम् । सं[३]वाहकस्य वृत्तिमुपजीवामि ।

 वसन्तसेना-सुउमारा खु कला सिक्खिदा अज्जेण । [सुकुमारा खलु कला शिक्षितार्येण ।]

 संवाहकः-----अज्जए । कलेत्ति शिक्खिदा, आजीविआ दाणिं संवुत्ता । [आयें ! कलेति शिक्षिता, आजीविकेदानीं संवृत्ता।]

 चेटी–अदिणिव्विण्णं अज्जेण पडिवअणं दिण्णं । तदो तदो?। [ अतिनिर्विष्णमार्येणे प्रतिवचनं दत्तम् । ततस्ततः ? ।]

 संवाहकः--तदो अज्जए ! एशे णिजगेहे आहिँडकाणं मुहादो शुणिअ अपुव्वदेशदंशणकुदूहलेण इह आगदे । इह वि मए पविशिअ उज्जइणिं एक्के अज्जे शुश्शूशिदे । जे तालिशे पिअदंशणे पिअवादी, दइअ ण कित्तेदि, अवकिदं विशुमलेदि । किं बहुणा पलंतेण । दक्खिणदाए पलकेलअं विअ अत्ताणअं अवगच्छदि, शलणागअवच्छले अ। [ तत आर्ये ! एष निजगृह आहिण्डकानां मुखाच्छ्रुत्वाऽपूर्वदेश दर्शनकुतूहलेनेहागतः । इहापि मया प्रविश्योज्जयिनीमेक आर्यः शुश्रूषितः । यस्तादृशः प्रियदर्शनः प्रियवादी, दत्वा न कीर्तयति, अपकृतं विस्मरति । किं बहुना प्रलपितेन । दक्षिणतया परकीयमिवात्मानमवगच्छति, शरणागतवत्सलश्च।]

 चेटी–को दाणिं अज्जआए मणोरहाहुत्तस्य गुणाइं चोरिअ उज्जइणिं अलंकरेदि ? [क इदानीमार्याया मनोरथाभिमुखस्य गुणोश्चोरवित्वोज्जयिनीमलंकरोति ? ।]


sहम् । संवाहकस्य शरीरयन्त्रमर्दकस्य व्यापारमुपजीवाभि । स्वगृहपर्यटकानां भिक्षुकादीनां वचनं श्रुत्वा । अवकिर्द अपकृत विस्मरवि । किं बहुना, पलंतेण प्रलपितेन ।। मणोरहाहुत्तस्स मनोरथाभिमुखस्य ॥ अनुक्रोशः


टिप्प-1


  1. १इदं काशीतः पूर्वस्मिन्दिशि प्राचीनं मगधराजनगरम्, प्रस्तुतं पाटणा'ख्यमेव चेति केचित्
  2. ग्रामाध्यक्षस्य पुत्रः।
  3. ३अङ्गमर्दनरूपामुपजीविकामित्यर्थः ।