पृष्ठम्:मृच्छकटिकम्.pdf/३३

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
२५
प्रथमोऽङ्कः

 विटः—शान्तं पापं शान्तं पापम्। भवति वसन्तसेने! पुष्पमोषमर्हत्युद्यानलता। तत्कृतमलंकरणैः।

 वसन्तसेना— ता किं खु दाणिं। [तत्किं खल्विदानीम्।]

 शकारः— हग्गे वरपुलिशमणुश्शे वाशुदेवके कामइदव्वे। [अहं वरपुरुषमनुष्यो वासुदेवः कामयितव्यः।]

 वसन्तसेना—(सक्रोधम्) संतं पावं। अवेहि, अणज्जं मंतेशि। [शान्तं पापम्। अपेहि, अनर्ह मन्त्रयसि।]

 शकारः—(सतालिकं विहस्य) भावे भावे। पेक्ख दाव। मं अंतलेण शुशिणिद्धा एशा गणिआदालिआ णं। जेण मं भणादि — 'एहि। शंते शि। किलिंते शि' त्ति। हग्गे ण गामंतलं ण णगलंतलं वा गडे। अज्जुके! शवामि भावश्श शीशं अत्तणकेहिं पादेहिं। तब ज्जेव्व पश्चाणुपश्चिआए आहिंडंते शंते किलिंते म्हि शंवुत्ते। [भाव भाव! प्रेक्षस्व तावत्। मामन्तरेण सुस्निग्धैषा गणिकादारिका ननु। येन मां भणति—'एहि। श्रान्तोऽसि। क्लान्तोऽसि' इति। अहं न ग्रामान्तरं न नगरान्तरं वा गतः। भट्टालिके! शपे भवस्य शीर्षमात्मीयाभ्यां पादाभ्याम्। तवैव पृष्ठानुष्टिकयाहिण्डमानः श्रान्तः क्लान्तोऽस्मि संवृतः।]


अबला खल्वहम्॥ अल एव ध्रियसे जीवसि। बलवान्धारयितुं न शक्यत एवेति तात्पर्यम्॥ अत एव न मार्यसे॥ तक्कोअदि अन्विष्यते॥ कृतं निःफलमलंकरणैः। यत उद्यानलता पुष्पमोषं नार्हति। अहं वरपुरुषमनुष्यो वासुदेवः कामयितव्य इति तर्क्यत इत्याशयः॥ संतं शान्तम्। अनार्यमनर्हम्॥ सतालिकम्। विटस्य हस्ते तालदानं कृत्वेत्यर्थः। भाव! प्रेक्षस्व तावत्। मं अन्तरेण। 'मयीत्यर्थः' इत्येके। अन्तरेण चित्तेन अन्योन्यं सुस्निग्धैषा गणिकादारिका ननु। येन मां भणति—‘एहि। श्रान्तोऽसि। क्लान्तोऽसि।' हग्गे अहं न ग्रामान्तरगतो न नगरान्तरागतः। ग्रामान्तरागतो नगरान्तरगतश्च श्रान्तः क्लान्तश्च भवति, न त्वहमीदृश इत्याशयः। अज्जुके भट्टालिके। भावस्य विटस्य।